भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 225, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 225

तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२५

भूयोऽपि मया दृढतरीकर्तुमुपन्यस्तम्—'अस्ति कोऽपि राजसूनुर्निगूढं चरन् । अमुष्य वसन्तोत्सवे सहसखीभिर्नगरोपवनविहारिणी रतिरिव विग्रहिणी यदृच्छया दर्शनपथं गतासि । गतश्चासौ कामशरैकलक्ष्यतां मामन्ववर्त्तिष्ट । मया च वामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणाति- शयैश्च प्रेर्यमाणया तद्रचितैरेव कुसुमशेखरस्रगनुलेपनादिभिश्चिरमुपासि-

कथयसि तर्हीति तात्पर्यम् । तस्य पूर्वोक्तस्य । अमुष्य-तरुणस्य । यथा-येन प्रकारेण । इदं चक्षुर्मम नयनम् । चरितार्थं सार्थकम् । कृतकृत्यमिति यावत् । तथा तेन प्रकारेण । अनुग्रहः-कृपा । कार्यः विधेयस्त्वयेति शेषः । मया वृद्धये- त्यर्थः । दृढतरीकर्तुं-त्वयि तस्या अनुरागं निश्चलीकर्तुम् । उपन्यस्तं कथितम् । निगूढं-सुगुप्तम् । अमुष्य-राजपुत्रस्य । नगरोपवनविहारिणी-पुरोद्यानविहरण- शीला । विग्रहिणी-मूर्तिमती । यदृच्छया दैववशात् । दर्शनपथं-नयनमार्गं गता- सि-दृष्टासीत्यर्थः । असौ राजपुत्रः । कामशरैकलक्ष्यतां मदनवाणवेध्यताम् । गत- इत्यनुषज्यते । मां वृद्धामित्यर्थः । अन्ववर्त्तिष्ट-अनुसृतवान् । वां युवयोः । राज- पत्न्यास्तव चेत्यर्थः । अन्योन्यानुरूपैः तुल्यरूपैः । प्रेर्यमाणया नोद्यमानया । तद्र- चितैः तेन राजसूनुना निर्मितैः । कुसुमेति-कुसुमशेखरः आपीडः, स्रक् माल्यं अनुलेपन गन्धादि तैः । उपासिता सेविता । सादृश्यं प्रतिकृतिम् । स्वं स्वकीयम् । अनेन राजपुत्रेण । अभिलिख्य चित्रयित्वा । त्वदिति तव समाधेश्चित्तैकाग्रयस्य गाढत्वं गभीरत्वं द्रष्टुमित्यर्थः । एषः-यस्त्वया प्रागेवोक्तोऽर्थो विषयः । नि- श्चितः नियतो दृढ इति यावत् । अमुष्य राजसूनोः । अतिमानुषेति-अतिमानुषः

तार्थ करनेकी दया करो।' तत्पश्चात् मैंने (वृद्धाने) उस बातको पुष्ट करनेके निमित्त रानीसे (अर्थात्—रानीका आप पर प्रेम है कि नहीं इसे जाननेके लिये) कहा—'हे कल्पसुन्दरी! इस नगरमें कोई राजपुत्र गुप्त वेषमें घूमता है। वसन्तोत्सवके समय अपनी सखी-सहेलियोंके सहित अपनी विरोधिनी रतिदेवीके सदृश सुन्दर रूपवाली अपनी इच्छासे नगरीकी वाटिकाओंमें विचरण करनेवाली आप उस राजपुत्रद्वारा देखी गयी हैं। आपको देखते ही वह राजपुत्र कामवाणसे वेधित हो करके मेरे समीप आया। मैंने भी सोचा कि आप दोनोंके समान स्वरूप हैं, अन्योंमें अप्राप्य आकृतियाँ हैं, समान अति- शय गुण हैं, अतः उससे प्रेरित हो करके मैंने उस राजपुत्रके द्वारा रचित् आपीड्, माला, गन्धादि अनुलेपनद्वारा आपकी दीर्घकालसे सेवा की है। अपनी प्रतिकृति आपको दिखा- नेके हेतु उस राजपुत्रने, अपने हाथोंसे अपनी तस्वीर खींच करके, आपके प्रति अपना गम्भीर प्रेम प्रकट करनेके लिए ही, मेरे द्वारा भेजी है। यदि आपका अभीष्ट निश्चितरूपसे