दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 247, कुल 474 में से
संदर्भ में पढ़ेंतृतीयोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २४७ नृशंसः' इति । तेन तु मे पादयोर्निपत्याभिहितम्—'रम्भोरु, सहस्व मत्कृ- तानि दुश्चरितानि । मनसापि न चिन्तयेयमितःपरमितरनारीम् । त्वरस्व प्रस्तुते कर्मणि' इति । (३०) तदहमीदृशेन वैवाहिकेन नेपथ्येन त्वामभिसृतवती । प्राग- पि रागाग्निसाक्षिकमनङ्गेन गुरुणा दत्तैव तुभ्यमेषा जाया । पुनरपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता इति प्रपदेन चरणपृष्ठे निष्पीड्यो- त्क्षिप्तपादपार्णिरितरेतरव्यतिषक्तकोमलाङ्गुलिदलेन भुजलताद्वयेन कंधरां ममावेष्ट्य सलीलमाननमानमय्य स्वयमुन्नमितमुखकमला विश्रान्तवि- विकटवर्मणा । मे-कल्पसुन्दर्याः । सहस्व-क्षमस्व । दुश्चरितानि-अपराधान् । इतरनारीम्-अन्यस्त्रियम् । त्वरस्व-शीघ्रतां कुरु । प्रस्तुते-प्रारब्धे । (३०) तत् तस्मात् कारणात् । वैवाहिकेन-विवाहोचितेन । नेपथ्येन-- वेषेण । त्वामुपहारवर्माणम् । अभिसृतवती-प्राप्तवती । प्राक्-पूर्वम् । रागाग्नि- साक्षिकं-रागोऽनुराग एवाग्निः साक्षी दृष्टा यस्मिन् कर्मणि तदिति क्रियाविशेष- णम् । गुरुणा-आचार्येण । दत्ता-अर्पिता । एषा मद्रूपा । जाया भार्या । जात- वेदमसग्निम् । स्वहृदयेनेति-पूर्वमनङ्गेन दत्ता अधुना तु निजहृदयेनेति-विशे- षः । प्रपदेन-पादाग्रेण । निष्पीड्य-पीडयित्वा । उत्क्षिप्तपादपार्णिः उत्क्षिप्तौ उदृधृतौ पादयोश्चरणयोः पाष्णीं गुल्फदेशौ यया सा । इतरेतरेति-इतरेतरमन्योन्यं व्यतिषक्तानि मिलितानि कोमलानि अङ्गुलय एव दलानि पत्राणि यस्य तेन । कंधरां-ग्रीवाम् । आवेष्ट्य-आश्लिष्य । सलीलं सविलासम् । आननं मदीयं मुखम् । आनमय्य-आनतीकृत्या । उन्नमितमुखकमला-ऊर्द्ध्वीकृताननपद्मा । विश्रान्तेति- कहनेपर उस धूर्त्तने मेरे पैरोंपर गिरकरके कहा- हे रम्भोरु ! आप मेरे किये हुए अप- राधोंको क्षमा कीजिये । अब मनसे भी अन्य रमणियोंको स्मरण न करूंगा। इस प्रारम्भित कार्यके लिए शीघ्रता कीजिये ।' (३०) इस कारणसे मैं इस प्रकारके विवाहके समयानुरूप वस्त्रोंको धारण करके आपके समीप आयी हूँ। पूर्वमें भी अनुरागरूपी अग्निको साक्षी बना करके कामदेवरूपी आचार्यने इस जायाको आपको सौंप दिया है । अब फिर भी इस अग्निकी साक्षी दे करके अपने हृदयसे (अपनेको ) आपको सौंप रही हूँ। ऐसा कहकर वह कल्पसुन्दरी रानी अपने चरणोंके अग्रिम भागोंसे मेरे चरणोंको दबाती हुई खड़ी हुई । परस्पर मिले हुए गुल्फोंसे तथा अन्योन्यमें संश्लिष्ट कोमल अङ्गुलिरूपी दलवालो (पत्रवाली) दोनों बाहुवल्लियोंसे मेरे गलेको परिवेष्टित करके उस रानीने बिलाससे मेरे मुखकी नीचे नवा