भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 250, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 250

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

२५० दशकुमारचरितम् । [ उत्तरपीठिकायां विशालवर्मणे दण्डचक्रं पुण्ड्रदेशाभिक्रमणाय दित्सितम् । पौरवृद्धश्च पाञ्चालिकः परित्रातश्च सार्थवाहः खनतिनाम्नो यवनाद्वज्रमेकं वसुंधरामूल्यं लघीयसार्घेण लभ्यमिति ममैकान्तेऽमन्त्रयेताम् । गृहपतिश्च ममान्तरङ्ग- भूतो जनपदमहत्तरः शतहलिरलीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमन- न्तसीरं जनपदकोपेन घातयेयमिति दण्डधरानुद्धारकर्मणि मत्प्रयोगान्नि- योक्तुमभ्युपागमत् । इत्थमिदमचिरप्रस्तुतं रहस्यम् ।' पुण्ड्रनामकदेशजयाय । दित्सितं दातुमभिलषितम् । इति द्वितीयं रहस्यम् । पौर- वृद्धः-पौरेषु नागरिकेषु वृद्धो वर्षीयान् । पाञ्चालिक इति वृद्धस्य नाम । परित्रातः- संकटाद् रक्षितः । सार्थवाहः कश्चिद् वणिक् तन्नामधेयः कश्चिद् वा । एतौ अनन्त- रोक्तक्रियापदस्य अमन्त्रयेतामित्यस्य कर्तृकारकौ । खनतिनाम्नः खनतिरिति नाम यस्य तस्मात् । वज्रं हीरकम् । वसुन्धरामूल्यं वसुन्धरा पृथिवी मूल्यं यस्य तत् । वसुन्धराविनिमयेन लभ्यमित्यर्थः । लघीयसा अत्यल्पेन । अर्घेण मूल्येन । एकान्ते रहसि । अमन्त्रयेतां उक्तवन्तौ । इति तृतीयं रहस्यम् । गृहपतिर्ग्रामा- ध्यक्षः । अन्तरङ्गभूतः-आत्मीयः । जनपदमहत्तरः प्रधाननागरिकः । शतहलिरिति ग्रामाध्यक्षस्य नाम । अलीकवादशीलं-मिथ्याभाषणरतम् । अवलेपवन्तं गर्वितम् । दुष्टग्रामण्यं दुष्टग्रामाध्यक्षम् । अनन्तसीरं-तन्नामकम् । जनपदकोपेन-तस्मिन् जनपदकोपमारोप्येत्यर्थः । घातयेयं विनाशयिष्यामि । दण्डधरान्-सेनानायकान् । उद्धारकर्मणि-अनन्तसीरस्य निर्यातनकार्ये । मत्प्रयोगात् मन्नियोगात् । अभ्युपा- गमत् अहमेव दण्डधरान्नियोक्ष्यामीति स्वीचकार । इति चतुर्थं रहस्यम् । इत्थं अनेन प्रकारेण । अचिरप्रस्तुतं साम्प्रतमेव प्रक्रान्तम् । रहस्यं गोप्यम् । एताव- देवेति शेषः । विशालवर्माको पुण्ड्रदेशके आक्रमण करनेके हेतु दण्डचक्र (सेनापति) बनानेके लिए सोचा है । यह दूसरा रहस्य है । पुरवासियोंमें वृद्ध पाञ्चालिक और सार्थवाह नामक बनियेको रक्षक बना करके खनति नामके यवनसे एक बहुमूल्य हीरेको जिसका दाम सारी पृथ्वी हो सकता है, अति स्वल्प मूल्यसे खरीदनेका विचार किया है। यह तीसरा रहस्य है । गृहपति (ग्रामाध्यक्ष) मेरा आत्मीय जन है । सर्व देशोंमें श्रेष्ठ शतहलो प्रधान नागरिक है । पर यह मिथ्यावादी तथा गर्विष्ठ है और अनन्तसीर नामक व्यक्ति भी दुष्ट ग्रामाध्यक्ष है । इन लोगोंपर जनपदकोप कराऊंगा और इनका विनाश कर दूंगा । सेनापतियोंको इस निर्याणकर्ममें मैं ही नियुक्त करूंगा यह तय हुआ है। यह चतुर्थ रहस्य है। यही मेरे वर्त्तमान रहस्य भेद हैं ।'

Nepal Sanskrit University, Balmeeki Campus, Kathmandu