दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 281, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF चतुर्थोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २८१
वलयमक्षय्यायुधस्थानम् । अलङ्घ्यतमा च गुप्तिः । उपकृताश्च मयाति- बहवः सन्ति सामन्ताः । प्रकृतयश्च भूयस्यो न मे व्यसनमनुरुध्यन्ते । सुभटानां चानेकसहस्रमस्त्येव ससुहृत्पुत्रदारम् । अतोऽत्रैव कतिपयान्य- हानि स्थित्वा बाह्याभ्यन्तरज्ञांन्कोपानुत्पादयिष्यामः । कुपितांश्च संगृह्य प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य सहजांश्च द्विषः, दुर्दान्तमेनमुच्छेत्स्यामः' इति । 'को दोषः, तथास्तु' इति तातस्य मतमन्वमंसि । (२३) तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो
मण्डलं यस्य तत् । अक्षय्येति-अक्षय्याणामपरिमितानामायुधानाम्स्त्राणां स्थानं पात्रम् । विशेषणद्वयं गृहस्य । अलंघ्यतमा-अतिशयेनानतिक्रमणीया परैरिति शेषः । गुप्तिः रक्षा भूगृहं वा । उपकृताः कृतोपकाराः । सामन्ताः अधीननृपतयः । प्रकृ- तयः-प्रजाः । भूयस्योऽसंख्याः । व्यसनमनिष्टम् । अनुरुध्यन्ते-अनुमन्यन्ते । ममा- निष्टं नेच्छन्तीत्यर्थः । सुभटानां सुयोधूणाम् । ससुहृत्पुत्रदारं स्वस्वमित्रपुत्रकुटुम्बा- दिसहितम् । अत्रैव-अस्मद्गृह एव । बाह्याभ्यन्तेति-बाह्यान् बहिरङ्गान् प्रकृति- सम्बन्धिनः तथा अभ्यन्तरङ्गान् अमात्यादिसम्बन्धिनः कोपान् क्रोधान् । संगृह्य- वशमानीय । प्रोत्साह्य धनमानादिना प्रोत्साहितान् कृत्वा । अस्य सिंहघोषस्य । प्रकृत्यमित्रान्-प्राकृतशत्रून् । सहजान् द्विषः-सहजशत्रून् । उत्थाप्य-तद्विरोधाय प्रोत्साह्य । दुर्दान्तं-दुर्धर्षम् दुर्विनीतं वा । एनं सिंहघोषम् । उच्छेत्स्यामः-समूल- मुन्मूलयिष्यामः । मतमभिप्रेतम् । अन्वमंसि-अनुमोदितवान् । (२३) तथा तेन पूर्वोक्तेन प्रकारेण । प्रतिविधाय-प्रतिविधानं कृत्वा । राजा- सिंहघोषः । विज्ञापितोदन्तः-विदितवार्त्तः । जातानुतापः-कृतानुशोचनः । पार-
और नाश न होनेवाले शस्त्रोंके रखनेका भी स्थान है । अलंघनीय रक्षागृह (तहखाने) हैं। मेरेद्वारा उपकृत अनेकों सामन्तगण हैं। असंख्य प्रजावर्ग हैं जो मेरे दुःखको नहीं सहन कर सकते हैं। कई हजार योद्धा हैं जो अपने मित्र-स्त्री-पुत्रादिकों सहित (मेरी ओर)। हैं अतः इसी जगह कुछ दिनों रहकर बहिरङ्ग तथा अन्तरङ्ग व्यक्तियोंमें वैर कराऊँगा। और वैरीयोंको (क्रोधी व्यक्तियोंको) एकत्र कर उन सबको प्रोत्साहन दूंगा । फिर इस राजा सिंहघोषके प्रकृत शत्रु तथा सहज बैरियोंको उभार करके इस दुर्विनीत राजाको नष्ट करा दूंगा', 'क्या दोष है स्वीकार है'। ऐसा कहकर मैंने पिताकी बातोंको अनुमोदन किया । (२३) जब हम लोगोंने ऐसा प्रतिविधान रचा और स्थिर हुए । तब राजा सिंहघोषने इन सब वृत्तान्तोंको ज्ञात करके अत्यन्त शोच प्रकट किया । और उसने पारिश्रामिक
Nepal Sanskrit University, Balmeeki Campus, Kathmandu