दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 291, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २६१ विश्रब्धप्रसुप्तमङ्गनाजनमलक्षयम् । दक्षिणतोदत्तचक्षुरागलितस्तनांशुकाम् अमृतफेनपटलपाण्डुरशयनशायिनीम्, आदिवराहदंष्ट्रांशुजाललग्नाम् अंसात्स्रस्तदुग्धसागरदुकूलोत्तरीयाम् भयसाध्वसमूर्च्छितामिव धरणिम्, अरुणाधरकिरणबालकिसलयलास्यहेतुभिराननारविन्दपरिमलोद्वाहिभि- र्निःश्वासमातरिश्वभिरीश्वरेक्षणदहनदग्धं स्फुलिङ्गशेषमनङ्गमिव संधुक्षय- न्तीम्, अन्तःसुप्तषट्पदमम्बुजमिव जातनिद्रमामीलितलोचनेन्दीवरमाननं विन्यस्तदेहम् । अतिविश्रब्धप्रसुप्तं-अतिविश्वासेन निद्रितम् । अलक्षयम्-अप- श्यम् । दक्षिणतः-दक्षिणभागे । दत्तचक्षुः-प्रहितनयनः । आगलितेति-आगलितम् ईषदभ्रष्टं स्तनांशुकं स्तनावरणं यस्यास्ताम् । अमृतेति-अमृतस्य सुधायाः फेन- पटलं डिण्डीरसमूहस्तद्वत् पाण्डुरे शुभ्रे शयने शय्यायां शायिनीं शयिताम् । अतएव आदिवराहस्य वराहरूपेणावतीर्णस्य विष्णोर्दंष्ट्राया दशनस्यांशुजाले मयू- खमण्डले लग्नां सम्बद्धाम्-अंसात् स्कन्धदेशात् स्रस्त गलितं दुग्धसागरः क्षीर- समुद्र एव दुकूलं पट्टवस्त्रं तस्योत्तरीयं यस्यास्ताम् भयेन यत् साध्वसं सम्भ्रम- स्तेन मूर्च्छितां सञ्जातमूर्च्छां धरणीं पृथिवीमिवेत्युत्प्रेक्षा । अरुणेति-अरुणस्य ता- म्रवर्णस्याधरस्य किरणा मयूखा एव किसलयानि पल्लवानि तेषां लास्यस्य नृत्यस्य हेतुभिः कारणभूतैः अधरकम्पनकारणैरित्यर्थः । आननेति-आननमेवारविन्दं कमलं तस्य यः परिमलः सौगन्ध्यं तस्य वाहिभिर्वहनशीलैर्निःश्वासमातरिश्वभि- र्निःश्वासवायुभिः कारणभूतैरित्यर्थः । ईश्वरेक्षणदहनदग्धं धूर्जटिनयनानलाभस्मी- कृतम् । स्फुलिङ्गशेषं-अग्निकणमात्रावशेषम् । अनङ्गं कामम् । सन्धुक्षयन्तीम्- प्रज्वालयन्तीं वर्धयन्तीमिव । अन्तःसुप्ता अभ्यन्तरलीनाः षट्पदाः भ्रमरा यस्मिंस्तत् । अम्बुजं कमलमिव-जातनिद्रं निद्रितमत एवामीलिते ईषत्सङ्कुचिते हुई दीवालके समीप विचित्र एवं उज्ज्वल बिछौनेके ऊपर अत्यन्त विश्वासपूर्वक सोयी हुई थी । दक्षिणकी ओर दृष्टि डाली तो देखा कि उस अङ्गनाके स्तनों (कुचों) परसे वस्त्र खिसके हुए हैं । और वह अमृत के फेनके टुकड़ों के समान अत्यन्त विमल (सफेद) पलङ्गपर सोयी हुई है । वह अंगना आदिवराह भगवान् (विष्णु) के दांतोंकी किरण- प्रभासे परिव्याप्त अपने स्कन्धसे खिसकी हुई साड़ी (वस्त्र) को ऐसे धारण किये हुए है मानो, क्षीर-सागर शुभ्ररूपमें उसके स्कन्धप्रदेशमेंसे खिसक रहा हो । अर्थात् उसकी साड़ी दुग्धसमुद्रके सदृश स्वच्छ थी । भयके सम्भ्रमसे मूर्च्छित पृथिवीके समान तथा लाल अधर-किरणोंरूप रक्त किसलयोंको कंपानेवाली, अपने मुखकमलकी सुगन्धको लेकर उड़नेवाली निःश्वासोंके पवनसे परिव्याप्त भगवान् शङ्करके तृतीय नयनकी Nepal Sanskrit University, Balmeeki Campus, Kathmandu