भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 302, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 302

३०२ दशकुमारचरितम् । [ उत्तरपीठिकायां ( १२ ) अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनाम्नो धर्मवर्धनस्य कन्यां नवमालिकां घर्मकालसुभगे कन्यापुरविमानहर्म्यतले विशालकोमलतलं शय्यातलमधिशयानां यदृच्छयोपलभ्य 'दिष्ट्येयं सुप्ता, परिजनश्च गाढ- निद्रः । शेतामयमात्र मुहूर्तमात्रं ब्राह्मणकुमारो यावत्कृतकृत्या निवर्तेय' इति त्वां तत्र शाययित्वा तमुद्देशमगमम् । दृष्ट्वा चोत्सवश्रियम्, निविश्य च स्वजनदर्शनसुखमभिवाद्य च त्रिभुवनेश्वरमात्मालीकप्रत्याकलनोपारू- ढसाध्वसं च नमस्कृत्य भक्तिप्रणतहृदया भगवतीमम्बिकाम्, तया गिरि- दुहित्रा देव्या सस्मितम् 'अयि भद्रे, मा भैषीः । भवेदानीं भर्तृपार्श्वगा- मिनी । गतस्ते शापः' इत्यनुगृहीता सद्य एव प्रत्यापन्नमहिमा प्रतिनिवृत्त्य ( १२ ) यथार्थनाम्नः-सार्थकनामवतः । घर्मकालसुभगे-ग्रीष्मसमयमनोरमे । कन्यापुरे यद् विमानं सप्ततलगृहं तस्य हर्म्यतले कुट्टिमे । यदृच्छया-दैवयोगेन । उपलभ्य प्राप्य । दिष्ट्या भाग्येन । इयं नवमालिका । परिजनः सहचरीवर्गः । गाढा सान्द्रा निद्रा यस्य सः । शेतां शयनं करोतु । शयनार्थकशीधातोर्लोटि रूपम् । अयं तरुणः प्रमतिरिति यावत् । कृतकृत्या-सम्पादितस्वकार्या अहमिति शेषः । तत्र कन्यान्तःपुरे । तमुद्देशं उत्सवसमाजम् । निर्विश्य-उपभुज्य । अभिवाद्य प्रण- म्य । आत्मेति आत्मनः स्वस्यालीकमपराधः तस्य प्रत्याकलनेन ज्ञानेनोपारूढं सञ्जातं साध्वसं लज्जा यस्मिंस्तत्तथा तथा । भक्त्या प्रणतं नम्रं हृदयं यस्याः सा अहमिति शेषः । गिरिदुहित्रा-हिमालयकन्यया । अनुगृहीतेति क्रियायाः कर्तृपदमे- तत् । सद्यस्तत्क्षणम् । प्रत्यापन्नमहिमा-पुनः प्राप्तदैवप्रभावा । यथावत्-तत्त्वतः । ( १२ ) तदनन्तर दैवयोगसे मैंने श्रावस्ती नगरीके राजा यथार्थनामा महाराज धर्मवर्धनकी पुत्री नवमालिकाको देखा । जो नवमालिका ग्रीष्मकालके लिये सुखदायी राजभवनमें बड़ी भारी चारपायीपर प्रगाढ़ निद्रामें सो रही थी । भाग्यवशात् यह भी सोयी हुई है और यह परिजन भी गाढ़ी नींदमें सोये हुए हैं। ऐसा विचार कर मैंने आपको तबतकके लिये वहीं सुला दिया जबतक मैं लौट न आऊँ । अर्थात्-मैंने सोचा-यह ब्राह्मणका बालक मुहूर्त्तमात्र यहाँपर सोवे और तबतक मैं दर्शनादिसे कृतकृत्य होकर लौटती हूँ ।' ऐसी व्यवस्था करके-आपको सुलाकर-मैं उस मन्दिरमें गयी । वहां महोत्सवकी शोभा देखी और अपने परिजनोंके दर्शन-सुखका अनुभव प्राप्त किया । अकारण ही आत्मकृत अपराधके स्मरण होनेसे उत्पन्न लज्जाके वश होकर मैंने तीनों लोकोंके स्वामी शिवको प्रणाम किया । फिर भक्तिसे प्रणतहृदय होकर मैंने भगवती अम्बिकाको प्रणाम किया । ततः वे गिरिनन्दिनी देवी हँस कर बोली-'हे सौम्ये !