भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 354, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 354

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

३५४ दशकुमारचरितम् । [ उत्तरपीठिकायां र्थिभ्यः प्राहिणोत् । 'एभिर्लब्धाः काकिणीर्दत्त्वा शाकं घृतं दधि तैलमाम- लकं चिञ्चाफलं च यथालाभमानय' इति । ( ३२ ) तथानुष्ठिते च तया द्वित्रानुपदंशानुपपाद्य तदन्नमण्डमार्द्रवा- लुकोपहितनवशरावगतमति मृदुना तालवृन्तान लेन शीतलीकृत्य सलव- णसंभारं दत्ताङ्गारधूपवासं च संपाद्य, तदप्यामलकं श्लक्ष्णपिष्टमुत्पलग- न्धि कृत्वा धात्रीमुखेन स्नानाय तमचोदयत् । तया च स्नानशुद्धया दत्त- तैलामलकः क्रमेण सस्नौ । स्नातः सिक्तमृष्टे कुट्टिमे फलकमारुह्य पाण्डुह- णोत्-अङ्गारार्थिसकाशे विक्रयार्थमङ्गारान् प्रेरितवतीत्यर्थः । एभिरङ्गारैः । लब्धाः विक्रयलब्धाः । काकिणीः कपर्दिकाः । दत्त्वा समर्प्य-तद्विनिमयेन । चिंचाफलं तिन्तिडीफलम् । यथालाभं ताभिः काकिणीभिर्यावल्लभ्यं तावदित्यर्थः । ( ३२ ) तथा धात्र्या । द्वित्रान् द्वित्रिप्रकारान् । उपदंशान्-व्यञ्जनानि । उपपाद्य सम्पाद्य पक्त्वेति यावत् । आर्द्वेति-आर्द्रवालुकाभिः सरससिकताभिः उप- हितं युक्तं यन्नवशरावं तत्र गतं स्थितमिति तदन्नमण्डमित्यस्य विशेषणम् । अतिमृदुना मन्दसञ्चारितेन । शीतलीकृत्य-अनुष्णीकृत्य तदन्नमण्डमिति शेषः । तथा सलवणसंभारं-लवणाद्युपकरणद्रव्यसहितं तथा दत्तः अङ्गारधूपस्य हिङ्ग्वा- दिधूमस्य वासः सौगन्ध्यं यत्र तत् । तथा सम्पाद्य कृत्वा । तदपि आमलकं यद्- ङ्गारविनिमयेनानीतमित्यर्थः । श्लक्ष्णपिष्टं सम्यक्तया पिष्टम् । तथा उत्पलगन्धि पद्मगन्धयुक्तम् । धात्रीमुखेन धात्रीं संप्रेष्य । स्नानाय-स्नानं कर्तुम् । तं शक्ति- कुमारम् । अचोदयत् प्रेषितवती । स्नानशुद्धया स्वयं स्नानं कृत्वा तया कन्यया । दत्तेति-दत्तमर्पितं तैलामलकं च यस्मै तादृशः स शक्तिकुमार इति शेषः । सस्नौ स्नातवान् । सिक्त मृष्टे आदौ सिक्तं जलेनाद्रीकृतं पश्चात् मृष्टं शोधितं तस्मि- न् । कुट्टिमे बद्धभूमौ गृहाभ्यन्तरे इत्यर्थः । फलकं पीठम् । आरुह्य तत्रोपविश्य । (धात्रीको) देकर उस कन्याने शाक, घृत, दही, तेल, आंवला, इमली, आदि चीजें जो द्रव्यसे मिल सकीं उतनी मंगा लीं।' ( ३१ ) उस वृद्धाद्वारा उपर्युक्त चीजें लायी जानेपर कई तरहके शाक बना दिये । उस रखे हुए अन्नके माढ़को जो सरस बालूके नवीन पात्रमें धरा हुआ था, पंखेकी धीमी हवासे ठंडा कर दिया । उसमें फिर नमक आदि मिलाकर हींग जीरे आदिसे वघार दिया । उस आंवले आदिको भी पीसकर कमलकी सुगन्धिसे परिपूर्ण कर दिया । और इन चीजोंके तैयार हो जानेपर उस कन्याने अपनी धात्री मुखसे उस अतिथिको स्नान करनेके लिये कहला दिया। उस कन्याने स्वयं भी स्नान कर उस अतिथिको तेल, आंवला

Nepal Sanskrit University, Balmeeki Campus, Kathmandu