भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 356, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 356

३५६ दशकुमारचरितम् । [ उत्तरपीठिकायां कालशेयकाञ्जिकाभ्यां शेषमन्नमभोजयत् । सशेष एवान्धस्यसावतृप्यत् । अयाचत च पानीयम् । अथ नवभृङ्गारसंभृतागुरुधूपधूपितमभिनवपाट- लाकुसुमवासितमुत्फुल्लोत्पलग्रथितसौरभं वारि नालीधारात्मना पातयांब- भूव । सोऽपि मुखोपहितशरावेण हिमशिशिरकणकरालितारुणायमाना- क्षिपद्मा धारारवाभिनन्दितश्रवणः स्पर्शसुखोद्भिन्नरोमाञ्चकर्कशकपोलः परिमलप्रवालोत्पीडफुल्लघ्राणरन्ध्रो माधुर्यप्रकर्षावर्जितरसनेन्द्रियस्तदच्छं पानीयमाकण्ठं पपौ । न्धिभ्यामनुष्णाभ्यां च । कालशेयं तक्रं काञ्जिकाग्लद्रव्यविशेषः-ताभ्याम् । शेषमवशिष्टम् । सशेषे किञ्चिदवशिष्टे । अन्धसि अन्ने । असौ शक्तिकुमारः । अतृप्यत् तृप्तोऽभवत् । नवभृङ्गारेति-नवे नूतने शृंगारे जलपात्रविशेषे सम्भृतं पूरितं तथा अगुरुधूपेन गन्धद्रव्यविशेषेण धूपितं सुगन्धीकृतं अभिनवैः प्रत्यग्र- विकसितैः पाटलाकुसुमैर्वासितं सुरभीकृतं तथा उत्फुल्लैर्विकसितैरुत्पलैः ग्रथितं सम्पादितं सौरभं सौगन्ध्यं यस्य तत् । वारि विशेषणमेतत् । भृङ्गारस्य जलनिर्ग- मनमार्गो नाली तस्या धारात्मना धारारूपेण । पातयाम्बभूव निःक्षिप्तवती। सोऽपि शक्तिकुमारोऽपि । मुखेति-मुखे स्ववदने उपहितो लग्नो यः शरावस्तेन । मुखलग्नशरावे जलं पातितवतीत्यर्थः । हिमशिशिरेत्यादि-हिमवत् तुषारवत् शिशिरैः शीतलैः कणैर्जलविन्दुभिः करालितानि व्याप्तानि अरुणायमानानि रक्तीभूतानि अक्षिपद्मानि नेत्ररोमाणि यस्य तादृशस्तथा धारारवेण जलपतन- शब्देन अभिनन्दिते मुदिते श्रवणे कर्णौ यस्य तादृशस्तथा जलस्पर्शसुखेन उद्भि- न्नैः प्रादुर्भूतैः रोमाञ्चैः रोमविकारैः कर्कशौ अमसृणौ कपोलौ गण्डौ यस्य तथाभूतस्तथा परिमलस्य सौरभस्य यः प्रवालोत्पीडः लक्षणया विस्तारस्तेन फुल्ले विकसिते आमोदिते इत्यर्थः घ्राणरन्ध्रे नासाविवरे यस्य तादृशस्तथा माधुर्यस्य भोज्यस्वादस्य प्रकर्षेणाधिक्येन आवर्जितं वशीभूतं रसनेन्द्रियं जिह्वा यस्य तादृशः शक्तिकुमारः । अच्छं निर्मलम् । आकण्ठं कण्ठं यावत् । प्रसन्न हुआ कि उसने पेटभर खाकर भी कुछ थोड़ा अन्न छोड़ दिया-अर्थात् उसकी उतने प्रस्थ परिमाण चावलोंसे खूब तृप्ति हो गयी । ततः उस अतिथिने पानी मांगा । तब उसने अगुरु और पाटल कुसुमोंसे सुवासित शीतल जल नये घड़ेसे निकालकर करोआकी टोंटीसे देना शुरू किया । वह अतिथि अपने मुंहमें मिट्टीके वर्त्तनको लगाकर पानी पीने लगा और वह कन्या उस पात्रमें करोआसे पानी डालने लगी । तदनन्तर जलके शीतल स्पर्श सुखके अनुभवसे रोमाञ्चित होकर उसके कपोल प्रदेश कर्कश हो गये । नासिकाके छेद भी सुवासित पदार्थके संसर्गसे प्रमुदित हो उठे।