दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 383, कुल 474 में से
संदर्भ में पढ़ेंयति त्रासयति च, अकृत्ये चाज्ञां ददाति। तदत्र कल्याणराशिना साधीयः कृतम् । यदेष नरकाकः कारणानां नारकिणां रसज्ञानाय नीतःशीतेतरदी- धितिदेहजस्य नगरम्, तदत्र दयानिधेरनन्ततेजसस्तेऽयं जनः कांचि- दाज्ञां चिकीर्षति । आदिश, अलं कालहरणेन' इत्यनंंसीत् । ( ४ ) आदिशं च तम्—सखे, सैषा सज्जनाचरिता सरणिः, यद्- णीयसि कारणेऽनणीयानादरः संदृश्यते । न चेदिदं नेच्छसि सेयं संन्न- भयेन निद्रातुमपि न शक्यत इति भावः । अकृत्ये कर्तुमनुचिते विषये। अत्र अस्य विषये । कल्याणराशिना-मङ्गलालयेन त्वया साधीयः यथोचितम् , अति साधु वा । नरकाकः नरेषु काक इव-नराधम इत्यर्थः । कारणानां यातनानाम् । 'कारणा तु यातना तीव्रवेदने'त्यमरः । नारकिणां नरकपतितानाम् । नरकवासिनां याः यातना भवन्ति तासां रसज्ञानाय आस्वादग्रहणाय नीतः प्रापितः स्वयेति शेषः । शीतेतरा उष्णा दीधितिर्मरीचिर्यस्य स शीतेतरदीधितिः सूर्यस्तस्य देहज आत्मजो यमस्तस्य-नगरं यमालयमित्यर्थः । अनन्ततेजसः-अमितशक्तेः। अयं जनः-अहम् इत्यर्थः । चिकीर्षति-आज्ञामनुष्ठातुमिच्छति । कालहरणेन-कालविल- म्बेन । अनंसीत् प्रणाम । ( ४ ) आदिशम् आज्ञातवानहमिति शेषः । तं राक्षसम् । सैषा प्रसिद्धा । सरणिः पद्धतिः मार्ग इति यावत् । अणीयसि अणुतेरे अत्यल्पे इति यावत् । कारणे आदरहेतौ । अनणीयान्-महान् । सज्जना यत्र कुत्रापि जने स्वल्पेनापि कारणेन समधिकमादरं प्रदर्शयन्तीति तेषां पद्धतिः । ततश्च मयाद्य यत्कृतं तत्तूच्छमेव तदर्थं त्वया नाहमुच्चैः प्रशंसनीय इति भावः । न चेदिदमिति-यदि इदं मदुप- भी निद्रा नहीं आती थी। यह मुझे डराया और धमकाया करता था। अतः आप ऐसे मांगलिक पुरुषद्वारा यह कार्य अतीव सुन्दर हुआ। आपद्वारा यह नराधम नरककी यातना भोगनेके लिये सूर्यपुत्र (यम) की नगरीमें भेज दिया गया। हे दयानिधे ! आप ऐसे अमित शक्तिवाले पुरुषकी आज्ञा पालनेके लिये यह जन (किंकर) इच्छा करता है। आज्ञा दें, कालक्षेपसे क्या लाभ।' उपर्युक्त वार्त्ता विज्ञापितकर उसने मुझे प्रणाम किया। (४) मैंने उससे कहा-'हे सखे ! यही सज्जनों द्वारा आचरित मार्ग है कि अणुमात्र उपकारको भी सज्जनवृन्द महान् उपकार मानते हैं। तुम भी क्या ऐसा नहीं चाहते, नहीं अवश्य चाहते हो । अस्तु इस राजपुत्रीको जो यौवनभारसे नम्र देहलतावाली है, जो दुःखोंको सहन करनेमें असमर्था है, जो दुष्टकर्मी हवनकर्त्ताद्वारा