दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 39, कुल 474 में से
संदर्भ में पढ़ेंप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३६ कामन्दकीयादिनीतिपटलकौशलं वीणाद्यशेषवाद्यदाक्ष्यं संगीतसाहित्यहा- रित्वं मणिमन्त्रौषधादिमायाप्रपञ्चचुञ्चुत्वं मातङ्गतुरङ्गादिवाह्नारोहणपा- टवं विविधायुधप्रयोगचणत्वं चौर्यदुरोदरादिकपटकलाप्रौढत्वं च तत्तदा- चार्य्येभ्यः सम्यगलब्ध्वा यौवनेन विलसन्तं कुमारनिकरं निरीक्ष्य महीव- ल्लभः सः 'अहं शत्रुजनदुर्लभः' इति परमानन्दममन्दमविन्दत । इति श्रीदण्डिनः कृतौ दशकुमारचरिते कुमारोत्पत्तिर्नाम प्रथम उच्छ्वासः ।
णक्यस्तेन प्रणीतं कौटिल्यं, कामन्दकरचितं कामन्दकीयम् आदिपदेन शुक्रनीत्यादि संग्रहः । इत्यादीनि यानि नीतिपटलानि नीतिशास्त्रसमुदायास्तेषु कौशलं नैपुण्यम् । वीणादिषु वीणाप्रभृतिष्वशेषेषु सकलेषु वाद्येषु दाक्ष्यं दक्ष्ताम् । सङ्गीतसाहित्येषु नृत्यगीतादिशिल्पकलासु हारित्वं मनोहारित्वम् । मणिमन्त्रौषधादिभिर्यो मायाप्र- पञ्चः कपटप्रबन्धस्तेन वित्त इति 'तेन वित्तश्चुञ्चुप्चणपौ'ति चुञ्चुप्रत्ययः, तत- स्तस्य भावस्तथा । कपटप्रबन्धकुशलत्वमित्यर्थः । विविधानामायुधानामह्स्त्राणां प्रयोगेण वित्तस्तस्य भावस्तथा । अत्रापि तेनैव चणप् । चौर्यं स्तेयं, दुरोदरं द्यूतं तदादिकपटकलासु प्रौढत्वं प्रावीण्यम् । तत्तदाचार्य्येभ्यस्तत्तच्छास्त्रनिष्णातैभ्यः । लब्ध्वा अधिगम्य । कृत्येषु कार्येषु अनलसमालस्यरहितमुद्यमशीलमित्यर्थः । महीव- ल्लभो राजा । शत्रुजनदुर्लभः शत्रुभिरपराजेयः । अविन्दत अलभत । इति श्रीताराचरणभट्टाचार्य्यकृतायां बालबोधिनीसमाख्यायां दशकुमारचरितव्याख्यायां प्रथमोच्छ्वासः ।
पटुता, संगीत, साहित्य, मणि, मन्त्र, औषध आदि माया-प्रपंचोंमें दक्षता; हाथी, घोड़े, रथादि सवारियोंपर चढ़नेकी क्षमता; अनेक प्रकारके अस्त्र-शस्त्रोंके चलानेमें पटुता; चोरी, जुआ, कपटकलामें प्रवीणता; आदि तत्तत् शास्त्रियोंसे अच्छी प्रकार सीखे हुए तरुणावस्थासे सुशोभित एवं कार्योंमें आलस्यरहित कुमारोंको देखकर राजा हंसवाहनने अपनेको कृतकृत्य माना तथा मनमें यह सोचा कि अब शत्रुजन मेरा कुछ भी नहीं बिगाड़ सकते-मै अजेय हूँ और परमानन्दित होने लगा । इस प्रकारसे प्रथमोच्छ्वासकी बालक्रोडा हिन्दीटीका समाप्त हुई ।'