भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 393, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 393

हणेन तन्निराकरिष्यन्नरेन्द्रो न चास्ति सिद्धिः' इति । तेन चाहं दर्शि- ताशः शंकरनृत्यरणदेशजातस्य जरत्सालस्य स्कन्धरन्ध्रान्तर्जटाजालं निष्कृष्य तेन जटिलतां गतः कन्थाचीरसंचयान्तरितसकलगात्रः कांश्चि- च्छिष्यानग्रहीषम् । तांश्च नानाश्रर्यक्रियातिसंहिताज्जनादाकृष्टान्नचेला- दित्यागान्नित्यहृष्टानकार्षम् । अयासिपं च दिनैः कैश्चिदान्ध्रनगरम् । ( १२ ) तस्य नात्यासन्ने सलिलराशिसदृशस्य कलहंसगणदलित- ष्ठिानम् । निराकरिष्यन् दूरीकरिष्यन् । नरेन्द्रो जयसिंहः । न चास्ति सिद्धिः— महता प्रयत्नेनापि तत्कार्यं न सिद्धमित्यर्थः । तेन अग्रेजेन । दर्शिताशः प्रद- शितमार्गः । दर्शिता आशा दिक् यस्मै स इति समासः । शंकरेति—शंकरस्य शिवस्य नृत्यं ताण्डवं तस्य रङ्गदेशः रङ्गभूमिः श्मशानं तत्र जातस्योत्पन्नस्य । शिवस्य नृत्यं ताण्डवं तस्य रङ्गदेशः रङ्गभूमिः श्मशानं तत्र जातस्योत्पन्नस्य । जरत्सालस्य जीर्णवृक्षस्य । स्कन्धेति स्कन्धानां रन्ध्रस्य कोटरस्य अन्तर्मध्ये स्थितं यज्जटाजालं शिफासमूहस्तत् निष्कृष्य आकृष्य तेन जटाजालेन जटिलतां जटा- धरत्वं गतः प्राप्तः । कन्थेति-कन्थाचीरस्य जीर्णवस्त्रखण्डस्य सञ्चयेन संग्रहेण अन्तरितं आच्छादितं सकलं गात्रं शरीरं येन तादृशोऽहम् । शिष्यान् भक्तानि- र्यर्थः अग्रहीषं संगृहीतवान् । तान्-शिष्यान् । नानेति-नानाभिर्बहुविधाभिः अद्भुतकर्मभिः अतिसंहितात् प्रतारितात् जनात् लोकात् आकृष्टानि संगृहीतानि लब्धानीति यावत् । यानि अन्नचेलादीनि भोज्यवस्त्रादीनि । तेषां त्यागात् तेभ्यो दानात् नित्यहृष्टान् सर्वदासन्तुष्टान् अकार्ष कृतवान् । अयासिपं-गतवान् । कैश्चित् कतिपयैः । ( १२ ) तस्य आन्ध्रनगरस्य । नात्यासन्ने किञ्चिद्दूरे । सलिलराशिसदृशस्य जिससे वह कन्या अन्य किसी पुरुषके सम्मुख नहीं आती है। राजा (आंध्रेश) उस कन्या पर यक्ष दूर करानेके अनेकों उपाय मान्त्रिकों-तान्त्रिकोंसे करा रहे हैं, परन्तु, अभीतक कोई सिद्धि नहीं प्राप्त हुई है।' उस विप्रकेद्वारा प्रदर्शित मार्ग पाकर ( आशान्वित होकर ) मैंने भगवान् शङ्करके तांडवके रंगस्थलमें ( श्मशानमें ) उत्पन्न एक जीर्ण वृक्षके तने ( स्कन्धदेश ) के कोटर ( खोखला ) से जटा समूहको निकाल लिया और अपने शिरपर धारणकर, जटाधारी रूपको बना लिया । अपने शरीरको फटे-पुराने वस्त्रोंसे आच्छादित कर लिया । कुछ भक्तोंको भी एकत्र कर लिया । अनेक प्रकारके अद्भुतकर्म दिखाकर दर्शकोंको मुग्धकर जो अन्य-वस्त्र उनसे प्राप्त करता वह सब भक्तोंमें वितरित कर देता, जिससे मेरे सभी भक्तगण सन्तुष्ट थे । मैं कुछ भक्तों के साथ कुछ दिनोंमें आंध्र देशमें गया । ( १२ ) आंध्र देशके समीपमें ही ( थोड़ी दूरीपर ), समुद्रके तुल्य, और कलहंसों-