दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 405, कुल 474 में से
संदर्भ में पढ़ेंसप्तमोच्छ्वासः । बालबोधिनीव्याख्यासहितम् । ४०५ स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जाल- कजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगा- हत गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नक्रलीलया नीरातिनिलीनया तं तथा शयानं कन्धरयां कन्थया न्यग्रहीषम् । खर- तरकालदण्डसंघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेना- जहात्स चेष्टाम् । ततश्चाकृष्य तच्छरीरं छिद्रं निधाय नीरान्निर्यासिषम् । ( १६ ) सङ्गतानां च सैनिकानां तदत्यचित्रियताकारान्तरग्रहणम् । कर्णौ येन तादृशः । स्थिते अवशिष्टे । कृतेति—कृता अनुष्ठिता यथादिष्टा मत्व- थनानुरूपा क्रिया येनासौ । स्थानेति-स्थाने अनेकेषु स्थानेषु रचिता कृता रक्षा रक्षिपुरुषसंस्थापनं येनासौ । राजा जयसिंहः । निराकृतेति—निराकृतं दूरीकृतं परीक्ष्य शोधितमिति यावत् अन्तःशल्यं जलमध्यस्थविघ्नो यस्य तादृशं सरः सलिलम् । सलीलगतिः सविलासगमनः । अगाहत प्राविशत् । गतमित्यादि— कीर्णकेशं कीर्णा विक्षिप्ताः केशा मूर्द्धजा यस्मिन् कर्मणि तद् यथा तथा, संहत- कर्णनासं—कर्णौ च नासे चेति कर्णनासं प्राण्यङ्गत्वादेकवद्भावः संहतं पिहितं कर्णनासं यस्मिन् कर्मणि तद् यथा तथा । एतत्पदद्वयं गतमिति क्रियाया विशेष- णम् । हास्तिनं-हस्तिप्रमाणकं—हस्ती प्रमाणमस्येति अण्प्रत्ययः । सरसस्तलं गतं प्रविष्टं, तथा पूर्वोद्दिष्टानुसारेण शयानं सुप्तम् तं जयसिंहं ग्रीवायां कन्थरायां नक्रलीलया नक्रस्य मकरस्येव लीला तया-नक्रवदित्यर्थः नीरातिनिलीनया नीर सलिले अतिनिलीनया अत्यन्तनिमग्नया कन्थया प्रावरणविशेषेण न्यग्रहीपं निगृहीतवानहमिति शेषः । खरतरेति—खरतरोऽतितीक्ष्णः यः कालदण्डो यम- दण्डस्तस्य यत्सङ्घट्टनं सङ्घर्षस्तद्वत् अतिचण्डैः अतिभीषणैः । करचरणघातः हस्तपादप्रहारैः । निर्दयैति—निर्दयं यथा तथा दत्तो निग्रहो निकारो यस्यासौ । स जयसिंहः चेष्टां अजहात् अम्रियत । ततः—सरस्तलात् । आकृष्य बहिष्कृत्य । छिद्रे पूर्वकृतरन्ध्रे । निधाय संस्थाप्य । निर्यासिषम्-निर्गतोऽभवम् । ( १९ ) सङ्गतानां तत्रोपस्थितानाम् । तदाकारान्तरग्रहणं अन्याकारप्राप्तिः । विलासयुक्त प्रविष्ट हुआ । राजा अपने बालोंको खोलकर, कान-नाक बन्दकर हस्तिप्रमाण जलमें सो गया । तब मैने उस सोनेवाले राजाके गलेको पानीमें अत्यन्त गुप्त मगरकी लीलासे कन्धा कन्था द्वारा पकड़ लिया । तदनन्तर अत्यन्त तीक्ष्ण कालदण्ड के संघटनके समान अति भीषण अपने हाथ-पैरोंके आघातसे उस राजाको खूब मारा जिससे उस जयसिंहने एक क्षणमें ही अपनी लीला समाप्त कर दी ( मर गया ) । फिर उसके शरीरको ले जाकर उसी छेदमें रख दिया और मै जलसे बाहर आ गया । ( १९ ) वहांपर उपस्थित सैनिकोंने रूप-परिवर्त्तन देखकर अत्यन्त आश्चर्य प्रकट-