दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 435, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४३५
चामी भिन्नवृत्तेषु मन्दत्रासो बहुसुखैरवर्तन्त । सर्वश्च कुलाङ्गनाजनः सुलभभङ्गिभाषणरतो भग्नचारित्र्यन्त्रणस्तृणायापि न गणयित्वा भर्तृ- न्धातृगणमन्त्रणान्यशृणोत् । तन्मूलाश्च कलहाः सामर्षाणामुदभवन् । अहन्यन्त दुर्बला बलिभिः । अपहृतानि धनवतां धनानि तस्करादिभिः । अपहृतपरिभूतयः प्रहताश्च पातकपथाः । हतबान्धवा हतवित्ता वध- बन्धातुराश्च मुक्तकण्ठमाक्रोशन्नश्रुकण्ठ्यः प्रजाः । (२४) दण्डश्चायथाप्रणीतो भयक्रोधावजनयत् । कृशकुटुम्बेषु लोभः पदमधत्त । विमानिताश्च तेजस्विनोऽमानेनादह्यन्त । तेषु तेषु चाकृत्येषु
बहुकपटपूर्वकम् । अपाचरत् असदाचरत् । तदन्तःपुरेति-तस्य नृपस्यान्तःपुरेषु स्त्रीषु । अमी सामन्तादयः । भिन्नं विनष्टं वृत्तं चरित्रं येषां तेषु भिन्नवृत्तेष्विति तदन्तःपुरेश्विरस्यस्य विशेषणम् । मन्दत्रासा निर्भयाः-अमी इत्यस्य विशेषणम् । भग्नं भिन्नं चारित्र्यन्त्रणं वृत्तबन्धनं यस्येति कुलाङ्गनाजन इत्यस्य विशेषणम् । धातॄणां जाराणां गणः समूहस्तस्य मन्त्रणानि वचनानि । धाता जारे विधातरि इति कोषः । सामर्षाणाम् असहिष्णूनाम् । अपहृता दूरीकृता परिभूतिस्तिरस्क्रिया येभ्य- स्ते । प्रहता वितताः विस्तारं गता वा पातकपथाः पापमार्गाः । पापमार्गप्रवृत्ता- नपि न कश्चित्तिरस्करोतीत्यर्थः । आक्रोशन् चक्रन्दुः । अश्रुकण्ठ्यः बाष्पगद्गदस्वराः । (२४) अयथाप्रणीतोऽन्यायकृतः । लघुपापेन गुरुदण्डो गुरुपापेन च लघु- दण्ड इत्यर्थः । कृशकुटुम्बेषु दरिद्रपरिवारेषु । पदं स्थानम् । अकृत्येषु अन्यायेषु ।
छोड़ा तब सामन्तगण भी कुमार्गी होकर निर्भीकभावसे अन्तःपुरकी सुन्दरियोंके साथ भोग-विलास करने लगे । कुछ ही दिनोंमें अन्तःपुरकी सब महिलाएं चरित्रहीन होकर राजाको तृणवत् भी न गिनकर उन धूर्तोंके कथनानुसार आचरण करने लगीं। इसके पश्चात् उन छैलोंमें कलह की आग भड़की जिससे सबल निर्बल को मारने-पीटने लगे । चोर-डाकू धनिकोंका धन लूटने लगे । राज्य की सारी सम्पत्ति तहस-नहस हो गयी । पापके सभी दरवाजे खुल गये । उसकी सारी प्रजाके बन्धु-बान्धव मार डाले गये । उनका बहुत सा द्रव्य हर लिया गया । उच्छृङ्खल अधिकारियों द्वारा कितने ही सीधे-सादे भी मार डाले गये तथा कारागार में ठूंस दिये गये । खुलकर अराजकता फैल गयी । ऐसी दशामें बची-खुची प्रजा सौ-सौ आँसू बहाकर क्रन्दन करने लगी । (२४) जब अपराधियों को उचित रूप में दण्ड न मिला तो प्रजामें भय, क्रोधका सञ्चार बढ़ गया । धनहीन परिवारोंमें लोभ फैल गया । राज्यके स्वाभिमानी पुरुषोंके
Nepal Sanskrit University, Balmeeki Campus, Kathmandu