दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 459, कुल 474 में से
संदर्भ में पढ़ेंउत्तरपीठिकायामुपसंहारः ( १ ) व्यचिन्तयं च—'सर्वोऽप्यतिशूरः सेवकवर्गो मयि तथानुरक्तो यथाज्ञया जीवितमपि तृणाय मन्यते । राज्यद्वितयसैन्यसामग्र्या च नाहमश्मकेन्द्राद्वसन्तभानोन्यूनो नीत्याविष्टश्च। अतो वसन्तभानुं पराजित्य विदर्भाधिपतेरनन्तवर्मणस्तनयं भास्करवर्माणं पित्र्ये पदे स्थापयितु- मलमस्मि । अयं च राजसूनुर्भवन्त्या पुत्रत्वेन परिकल्पितः । अहं चास्य साहाय्ये नियुक्त इति सर्वत्र किंवदन्ती सञ्जातास्ति । अद्यापि चैतन्म- त्कपटकृत्यं न केनापि विदितम् । अत्रस्थाश्चास्मिन्भास्करवर्मणि राजतनये 'अयमस्मत्स्वामिनोऽनन्तवर्मणः पुत्रो भवान्याः प्रसादादेतद्राज्यमवाप्स्य- ति' इति बद्धाशा वर्तन्ते । अश्मकेन्द्रसैन्यं च राजसूनोर्भवानीसाहाय्यं विदित्वा 'दैव्याः शक्तेः पुरो न बलवती मानवी शक्तिः' इत्यस्माभिर्वि- ग्रहे चलचित्तमिवोपलक्ष्यते । अत्रत्याश्च मौलाः प्रकृतयः प्रथममेव राज- ( १ ) विश्रुत एवं कथयति व्यचिन्तयं चेति । चकारेण पूर्वोच्छ्वसान्ते उक्तस्य योगानन्वतिष्ठमित्यस्य समाहारः । तृणाय मन्यते-जीवितं तृणवत्त्यक्तु- मर्हतीत्यर्थः । राज्ययोर्द्वितयं द्वयं मित्रवर्मराज्यं प्रचण्डवर्मराज्यञ्च तस्य सैन्य- सामग्र्या वलसम्पदा । न्यूनो हीनः । नीत्याविष्टो नीतिपरायणः । अलं समर्थः । किंवदन्ती जनरवः । अत्रस्था अत्र वर्त्तमाना जनाः । बद्धाशा घृताशाः । भवानीसाहाय्यं देव्यपि साहाय्यं करिष्यतीति । अस्माभिः सह विग्रहे युद्धे । चलचित्तं .दोलायमानमानसं भीतमिति भावः । दानमानादिना आवर्जनेन प्रह्री- ( १ ) विश्रुत के ऐसा कहनेपर मैं सोचने लगा—ये जितने भी शूर-वीरसमुदाय हैं वे सब मेरेपर इतनी दृढ़ भक्ति रखते हैं कि, आज्ञा देनेपर अपने प्राणोंको भी तृणके समान त्यागनेके लिये उद्यत हैं । दोनों साम्राज्योंके सैन्यबल और युद्धास्त्रोंमें मैं, अश्मकेन्द्र वसन्तभानुसे न्यून नहीं हूँ तथा नीतिपरायण भी हूँ । अतएव अश्मकेन्द्र (वसन्तभानु) को पराजितकर विदर्भेश अनन्तवर्माके पुत्र भास्करवर्माको उनके पितृपद- पर आरूढ़ करानेके लिये सर्वदा शक्तिशाली हूँ । इस राजपुत्रको देवी जगदम्बाने पुत्रके तुल्य माना है और मुझे उसकी सहायता करनेके लिये संस्थापित (नियोजित) किया है। सब जगह यह किंवदन्ती विख्यात है ही। मेरेद्वारा किया हुआ जाल (कपट) कर्म अभीतक कोई नहीं जानता है । यहांके निवासीजन इस राजपुत्र भास्करवर्माके विषयमें यही सोचकर आशान्वित हैं कि, 'यह भास्करवर्मा जो मेरे स्वामी अनन्तवर्माका,