भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 7, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 7

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF थमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७ पूर्णकुम्भौ चक्रवाकानुकारौ पयोधरौ, ज्यायमाने मार्दवासमाने बिसलते च बाहू, ईषत्फुल्ललीलावतंसकह्लारकोरको गङ्गावर्त्तसनाभिर्नाभिः, दूरी- कृतयोगिमनोरथो जैत्ररथोऽतिघनं जघनम् , जयस्तम्भभूते सौन्दर्यभूते विघ्नितयतिजनारम्भे रम्भे चोरुयुगम् , आतपत्रसहस्रपत्रं पादद्वयम् , अस्त्रभूतानि प्रसूनानि तानीतराण्यङ्गानि च समभूवन्निव । कृपाणरूपः नूतनतरुपल्लवदर्शनेन पान्थानां हृदयमतितरां पीड्यते । प्रवालः किसल- यञ्च अधरबिम्बं तस्या ओष्ठाधरौ, जयशङ्खः कामस्य विजयध्वनिकारकः शङ्खो बन्धुरा उन्नतानता लावण्यधरा सौन्दर्यशालिनी तस्याः कन्धरा ग्रीवा, पूर्णकुम्भौ कामस्य विजययात्रयामपेक्षितौ जलपूर्णकलशौ चक्रवाकानुकारौ चक्रवाकं पक्षिविशेषं अनु- कुरुत इति, तत्सदृशावित्यर्थः, पयोधरौ तस्याः स्तनौ, ज्यायमाने मौर्वीसद्दश्यौ, मार्दवे कोमलतायामसमानेऽतुलनीयेऽतिकोमले इति शेषः । बिसलते मृणालद्वयं बाहू तस्या भुजौ, बाह्वोर्मृणालसादृश्यं कविप्रसिद्धम् । ईषत्फुल्लः स्वल्पविकसितो लीलावतंसः कामस्य विलासभूषणं कह्लारकोरकः सौगन्धिककुङ्मलो गङ्गायास्तदा- ख्यप्रसिद्धनद्या आवर्त्तस्य अम्भसां भ्रमस्य (स्यादावर्त्तोऽम्भसां भ्रम इत्यमरः ) सनाभिः सदृशस्तस्या नाभिः, दूरीकृतोऽपनीतो योगिनां तपश्चारिणां मनोरथो ध्या- नाभिलाषो येन स तादृशो जैत्ररथः कामस्य जयनशीलरथः अतिघनमपिनिविडं जघनं तस्याः कटिपुरोभागः, जयस्तम्भभूते कामस्य विजयस्तम्भस्वरूपे सौन्दर्यभूते मनोरमत्वमधिगते, विघ्नितः विघ्नयुक्तः कृतो यतिजनानां संयमिनामारम्भो ध्यानो- द्योगो याभ्यां ते, रम्भे कदल्यौ च तस्या ऊरुयुगं सक्थियुगलम् , आतपत्रं छत्रं तद्रूपं कामस्य सहस्रपत्रं कमलं पादद्वयं तस्याश्चरणयुगलम्, तानि प्रसिद्धानि अस्त्रभूतानि कामस्य बाणभूतानि प्रसूनानि पुष्पाणि अरविन्दादीनि इतराणि पूर्ववर्णितभिन्नानि वसुमत्या अङ्गानि उदारादीनि समभूवन्निव जातानीव (उत्प्रेक्षा) । तलवारके समान नये पल्लवों ने अधरोष्ठोका, विजयशङ्ख के निम्नोन्नत लावण्यने ग्रीवा का, दोनों पूर्णकुम्भोंने चक्रवाकके समान दोनो स्तनोंका, धनुषकी प्रत्यंचाने कमलके मृदु तन्तुके समान बाहुओंका, किञ्चित् विकसित लाल-लाल कमलके कर्णाळङ्कार ने गङ्गाके आवर्त्त- सदृश नाभिका, योगियोंके मनोरथोंको अर्थात् समाधि द्वारा परब्रह्म परमात्माकी प्राप्तिकी अभिलाषाको दूर करनेवाले कामदेवके जैत्ररथने जघनस्थलका, मुनियोंके योगाभ्यासमें विघ्नबाधा उपस्थित करनेवाले केलेके (स्तम्भों) खम्भोंने दोनों जाँघोंका, छत्रके सदृश सहस्रपत्र (कमल) ने दोनों पैरोंका, तथा अन्य पुरुषोंने, जो कामके शस्त्र थे, उसके शेष अंगोंका आश्रय लिया । [कामदेवके अस्त्र-शस्त्रोंने उस रानीके अंगोंमें वास कर लिया अर्थात् उस रानीके मुख आदि चन्द्रादिके सदृश थे ।] Nepal Sanskrit University, Balmeeki Campus, Kathmandu