भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 79, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 79

चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७६ मदान्धस्तामेवायाचत । तदसौ स्वकीयेन कर्मणा निहतः । किं तस्य विलापेन' इति मिथो लपन्तः प्राविशन् । कोलाहले तस्मिंश्चटुललोचनया सह नैपुण्येन सहसा निर्गतो निजावासमगाम् । (२६) ततो गतेषु कतिपयदिनेषु पौरजनसमक्षं सिद्धादेशप्रकारेण विवाह्य तामिन्दुमुखीं पूर्वसंकल्पितान्सुरतविशेषान्यथेष्टमन्वभूवम् । बन्धु- पालशकुननिर्दिष्टे दिवसेऽस्मिन्निर्गत्य पुराद्वहिर्वर्तमानो नेत्रोत्सवकारि भवदवलोकनसुखमप्यनुभवामि' इति । (२७) एवं मित्रवृत्तान्तं निशम्याम्लानमानसो राजवाहनः स्वस्य च वचनस्य रूपम् बधिरयन्तः इत्यस्य कर्म। बधिरयन्तः बधिरा इव कुर्वन्तः-अन्यशब्द- ग्रहणेऽसमर्थाः कुर्वन्त इति यावत्-उच्चैराक्रोशन्त इति भावः । बधिरयन्त इति ना- मधातो रूपम् । शृण्वन्नपि जानन्नपि । मदान्धः मदगर्वितः । तामेव बालचन्द्रिका- मेव । स्वकीयेन कर्मणा स्वदोषेण । मिथः परस्परम् । लपन्तः कथयन्तः । कोलाहले कलकले सञ्जाते इति शेषः । चतुले चपले लोचने यस्यास्तया । बालचन्द्रिकये- त्यर्थः । नैपुण्येन दक्षतया । सहसा सत्वरम् । (२६) पौरजनानां नागरिकाणां समक्षं सम्मुखे । सिद्धस्य सिद्धपुरुषस्यादेशः कथनं तस्य प्रकारस्तेन । यथा सिद्धेनादिष्टं तथैवेत्यर्थः । पूर्वसंकल्पितान् प्रागेव मन- स ईप्सितान् । सुरतविशेषान् क्रीडाविशेषान् । यथेष्टं यथाभिलाषम् । अन्वभूवम्- अनुभूतवान् अहमिति शेषः । बन्धुपालस्य तदाख्यमित्रस्य शकुनेन शुभसूचकेन नि- र्दिष्टे कथिते । पुरात् नगरात् । बहिः बहिःप्रदेशे । नेत्रोत्सवकारि नयनानन्दजन- कम् । भवतः तव राजवाहनस्येति शेषः । अवलोकनस्य दर्शनस्य सुखमानन्दम् । (२७) अम्लानेति-अम्लानं स्वच्छं मानसं मनो यस्यासौ प्रफुल्लहृदय इत्यर्थः । यह मदान्ध पूर्वसे ही जानता था कि बालचन्द्रिकाके सिरपर प्रेत रहता है। फिर भी इसने न माना और अपने ही कुकृत्यसे यह फल भोगा-अपने ही काले कृत्यसे यह मारा गया । अब क्यों खेद करें । ऐसा कहते हुए वे लोग अन्दर प्रविष्ट हुए । उसी कोलाहलवाले समुदा- यमें मै भी उस चंचल नयनी के साथ चालाकी से बाहर आकर अपने वासस्थानको चला आया । (२६) कुछ दिवसों के व्यतीत होने के पश्चात् उस तपस्वीके बताये हुए तरीकेसे मैने उस चन्द्रमुखीके साथ विवाह कर लिया । पूर्व संकल्पित मनोभिलाषोंको यथेच्छापूर्वक भोगा- उसके साथ नाना प्रकारके भोग-विलास किये । फिर बन्धुपालके द्वारा उपदेशित शकुनसे आज नगरके बाहर आ गया और नयनाभिराम आपके दर्शनकर सुखका अनुभव किया। (२७) इस प्रकारसे मित्रके वृत्तान्तको श्रवणकर राजवाहनका चित्त प्रमुदित हो गया तथा उसने अपने और सोमदत्त के चरितोंको भी उससे यथावत् कह दिया । तब सोमदत्तसे

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · पृष्ठ 79, कुल 474 में से · BharatKosha