दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 82, कुल 474 में से
संदर्भ में पढ़ें८२ दशकुमारचरितम् । [ पूर्वपीठिकायां रक्ताशोककिंशुकतिलकेषु कलिकामुपपादयन्, मदनमहोत्सवाय रसिकम- नांसि समुल्लासयन्, वसन्तसमयः समाजगाम । (२) तस्मिन्नतिरमणीये कालेऽवन्तिसुन्दरी नाम मानसारनन्दिनी प्रियवयस्यया बालचन्द्रिकया सह नगरोपान्तरम्योद्याने विहारोत्कण्ठया पौरसुन्दरीसमवायसमन्विता कस्यचिच्चूतपोतकस्य छायाशीतले सैकत- तले गन्धकुसुमहरिद्राक्षतचीनाम्बरादिनानाविधेन परिमलद्रव्यनिकरेण मनोभवमर्चयन्ती रेमे । (३) तत्र रतिप्रतिकृतिमवन्तिसुन्दरीं द्रष्टुकामः काम इव वसन्त- सहायः पुष्पोद्भवसमन्वितो राजवाहनस्तदुपवनं प्रविश्य तत्र-तत्र मलयमा- वृत्तश्च ते तेषु । कलिकां कोरकम् । उपपादयन् जनयन् । मदनमहोत्सवाय मदनम- होत्सवार्थम् । रसिकानां कामिजनानां मनांसि मानसानि । उल्लासयन् उत्साहयन् । (२) तस्मिन् पूर्वोक्ते । काले वसन्त इत्यर्थः । मानसारस्य तदाख्यमालवेश्व- रस्य नन्दिनी कन्या । अवन्तिसुन्दरीति नामधेया । प्रियवयस्यया प्रियसख्या । नगरस्योपान्ते सीमायां यद् रम्यं मनोहरमुद्यानमुपवनं तत्र । विहारार्थं क्रीडार्थमु- त्कण्ठया व्याकुलतया । पुरे भवाः । पौराश्च ताः सुन्दर्यस्तासां पौराङ्गनानां समवायेन मण्डलेन समन्विता युक्ता । चूतपोतकस्य शिशुसहकारस्य । छायया शीतलं तस्मिन् । सैकततले सिकतामयप्रदेशे । गन्धश्चन्दनं, कुसुमं पुष्पं, हरिद्रा, अक्षतास्तण्डुलाः, चीनाम्बरं सूक्ष्मवस्त्रं इत्यादिनानाविधेन अनेकप्रकारेण । परिमलद्रव्यनिकरेण गन्ध- द्रव्यसमूहेन । मनोभवं कामम् । रेमे चिक्रीड । (३) तत्र तस्मिन् समये । रतेः कामपत्न्याः प्रतिकृतिः प्रतिमा ताम् । वसन्तः सहायो यस्य स वसन्तद्वितीय इत्यर्थः । मलयेति-मलयमारुतेन दक्षिणानिलेन महोत्सव मनानेके निमित्त कामदेवने रसिकोंके हृदयोंमें एक विशेष रीतिकी उल्लास ला दिया । इस तरहसे वसन्त काल जब आ पहुँचा तब- (२) ऐसी सुखदायी ऋतुमें राजा मानसारकी कन्या अवन्तिसुन्दरी अपनी प्रिय सहचरी बालचन्द्रिकाके साथ विहार करनेकी अभिलाषासे नगरके समीप उपवनमें आयी । उसके साथ नगरकी महिलाएँ भी थीं। उस उपवनमें आकर उसने एक छोटे आमके वृक्षोंके नीचे, रोरी, चन्दन, फल, फूल, हल्दी, अक्षत तथा चीनदेशीय रेशमी वस्त्रोंके द्वारा सुगन्धित द्रव्योंके सहित विधिवत् आनन्दके साथ कामदेवका पूजन किया और क्रीड़ा करने लगी- सखियोंसे विनोद करने लगी। (३) कामदेवके समान मनोज्ञ राजवाहन भी पुष्पोद्भवके साथ उसी समय कामदेवकी पत्नी के समान मनोहर अवन्तिसुन्दरीको देखने जब वहाँपर आ गये तब ऐसा मालूम होता था