भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 85, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 85

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ८५

पाट्या वलित्रयम्, मौर्वीमधुकरपङ्क्तिनीलिमलीलया रोमावलिम्, पूर्ण- सुवर्णकलशशोभया कुचद्वन्द्वम्, (लतामण्डपसौकुमार्येन बाहू), जयश- ङ्खाभिख्यया कण्ठम्, कमनीयकर्णपूरसहकारपल्लवरागेण प्रतिबिम्बीकृत- बिम्बं रदनच्छदम्, बाणायमानपुष्पलावण्येन शुचि स्मितम्, अग्रदूति- काकलकण्ठिकाकलालापमाधुर्येण वचनजातम्, सकलसैनिकनायकमल- यमारुतसौरभ्येण निःश्वासपवनम्, जयध्वजमीनदर्पेण लोचनयुगलम्,

स्याऽनुवृत्त्या सादृश्येन । गङ्गाया आवर्तो भ्रमितस्तस्य सनाभि सदृशम् । आरुह्यतेऽ- नेनेति आरोहणम् । करणे ल्युट् । सौधस्य प्रासादस्य यदारोहणं सोपानं तस्य परि- पाट्या अनुक्रमेण । सोपानपङ्क्तितुल्यं वलित्रयमित्यर्थः । मौर्वी ज्यैव मधुकरपङ्क्तिः रोलम्बमाला तस्या यो नीलिमा नैल्यं तस्य लीलया सौन्दर्येण रोमावलि रोमपङ्कि- म् । पूर्णो जलपूर्णो यः सुवर्णकलशः स्वर्णघटस्तस्य शोभया कान्त्या कुचद्वन्द्वं स्त- नयुगम् । कुचौ तस्याः कामस्य द्वारदेशस्थितशुभसूचककनककलशाकारावित्यर्थः । लतामण्डपस्य सौकुमार्येण कोमलतया बाहू हस्तद्वयम् । जयशङ्खस्याभिख्यया शोभ- या कण्ठं ग्रीवाम् । सा कम्बुग्रीवेति भावः । कमनीयः सुन्दरो यः कर्णपूरः कर्ण- भूषणीभूतः सहकारपल्लवो रसालकिसलयं तस्य रागेण रक्तिम्ना, प्रतिबिम्बीकृतं प्रतिबिम्बवत्कृतं बिम्बं बिम्बफलं येन तादृशं, यत्पूर्वं बिम्बमासीत्तदेवास्या अधरनि- र्माणानन्तरं प्रतिबिम्बं जातमित्यर्थः । प्रसिद्धबिम्बफलापेक्षयाऽप्यस्या अधरोष्ठयो रागोऽधिक इति तात्पर्यम् । रदनच्छदमोष्ठम् । बाणवदाचरतीति बाणायमानं यत् पुष्पं तस्य लावण्येन सौन्दर्येण । शुचि शुद्धम् । स्मितं हास्यम् । अग्रदूतिका प्रथम- दूती कामस्येति शेषः । या कलकण्ठिका कोकिलवधूस्तस्या यः कलो मधुर आलापो ध्वनिस्तस्य माधुर्येण मधुरतया । वचनजातं वाक्यसमूहम् । सकलसैनिकानां निखि- लभटानां कामस्येति शेषः । नायको नेता सेनापतिरिति यावत् यो मलयमारुतो मल- यवायुस्तस्य सौरभ्येण सौगन्ध्येन । निःश्वासपवनं श्वासवायुम् । जयसूचको ध्वजो

पान (सीढ़ियों) के सदृश उसकी त्रिवली। धनुषके ऊपर मडराती भ्रमरावलिकी कालिमासे सुशोभित रोमावली। पूर्ण स्वर्णकलशकी छविको धारण करनेवाले उसके कुचद्वय बनाये। लतामण्डपकी शोभाके समान उसके दोनों हाथ रचे। जयशंखकी ग्रीवाके समान उसका कण्ठ। सुन्दर कनफूलके ऊपर रखी हुई आम्रमंजरीकी लालिमाके सदृश एवं पके कुंदरू (बिम्बा फल) के समान लाल लाल उसके ओंठ। बाणोंके समान आकारवाले फूलोंकी शोभाके समान सुन्दर मुसकान तथा पहले-पहल प्रेषित की जानेवाली कामदूतिका (अर्थात् कोयल) की वाणीके समान मधुर उसकी वाणी तथा कामदेवकी सम्पूर्ण सेनाके सेनापति मलय पवनकी सुगन्धिसे उसके श्वासोच्छ्वास एवं जयसूचिका पताकामें लगी मीनाकार (मछलीके समान)