दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 99, कुल 474 में से
संदर्भ में पढ़ेंपञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १०१ कुण्डलमण्डितो मुण्डितमस्तकमानवसमेतश्चतुरवेषमनोरमो यदृच्छया समागतः समन्ततोऽभ्युल्लसत्तेजोमण्डलं राजवाहनमाशीर्वादपूर्वकं ददर्श । राजवाहनः सादरम् 'को भवान्, कस्यां विद्यायां निपुणः' इति तं पप्रच्छ । स च 'विद्येश्वरनामधेयोऽहमैन्द्रजालिकविद्याकोविदो विविधदेशेषु राजमनो- रञ्जनाय भ्रमन्नुज्जयिनीमद्यागतोऽस्मि' इति शशंस । पुनरपि राजवाहनं सम्यगालोक्य 'अस्यां लीलावनाँ पाण्डुरतानिमित्तं किम्' इति साभि- प्रायं विहस्यापृच्छत् । पुष्पोद्भवश्च निजकार्यकरणंतर्कयन्नेनमादरेण बभा- षे—'ननु सतां सख्यस्याभाषणपूर्वतया चिरं रुचिरभाषणो भवानस्माकं प्रियसख्यो जातः । सुहृदामकथ्यं च किमस्ति ? । केलीवनेऽस्मिन्वसन्तम- होत्सवायागताया मालवेन्द्रसुताया राजनन्दनस्यास्य चाकस्मिकदर्शनेऽ- न्योन्यानुरागातिरेकः समजायत । सततसंभोगसिद्धयुपायाभावेनासावीदृ- शीमवस्थामनुभवति' इति । विद्येश्वरो लज्जाभिरामं राजकुमारमुखमभि- यस्य सः । मुण्डितं मस्तकं यस्य तादृशेनापरेण मानवेन समेतो युक्तः । यदृच्छया अकस्मात् । कोविदः पण्डितः । लीलाव नौ उद्यानभूमौ । पाण्डुरताया निःश्रोकताया निमित्तं कारणं किम् 'विहारभूमौ तिष्ठन्नपि पाण्डुवदनं किमर्थं बिभर्षि' इति राज- वाहनं प्रत्यैन्द्रजालिकस्य प्रश्नः । साभिप्रायं साभिनिवेशम् । सख्यस्य मित्रतायाः । आभाषणं पूर्वं यस्मिंस्तस्य भावस्तया । आभाषणमात्रेणैव सतां मैत्री भवतीति भावः । चिरं दीर्घसमयं यावत् । सुहृदां मित्राणां सकाशे । अकथ्यं अप्रका- श्यम् । अन्योन्यानुरागातिरेकः परस्परप्रमातिशयः । असौ राजवाहनः । लज्जया कानोंमें मणिमय कुण्डल लटक रहे थे तथा एक और मनुष्य मुण्डन किये हुए उसके साथमें था । देखनेसे ही वह पटु पुरुष ज्ञात होता था तथा उसकी वेश-भूषा भी भली थी । उसके चेहरेसे उसका तेजःपुंज झलक रहा था । उसने राजवाहनके समीप आकर उसे आशीर्वाद दिया । राजवाहनने भी बड़े विनीतभावसे उससे पूछा-आप कौन हैं तथा आप किस विद्याके पण्डित हैं ? उत्तरमें उसने कहा-मेरा नाम विद्येश्वर है । मैं प्रसिद्ध ऐन्द्रजालिक हूँ । अनेक देशोंके राजे महाराजोंका मनोविनोद कराता हुआ, आज ही आपकी नगरी उज्जयिनीमें भ्रमण करता हुआ, आया हूँ । तत्पश्चात उसने राजवाहनको एक बार अच्छी रीतिसे देखा तथा हँसते हुए पूछा-इन केलिवनोंमें आप पाण्डुवदन क्यों दीख रहे हैं ? पुष्पोद्भवने, उसके द्वारा अपने काममें सहायता मिलनेकी कामनासे प्रेरित होकर बड़े आदर तथा आग्रहके साथ कहा-हे प्रभो ! भद्र पुरुष पहले ही वार्ता शुरू करते हैं । अत एव आप हमारे मित्र हैं क्योंकि आपने पूर्वसे ही मधुरालाप हमसे प्रारम्भ किया है । जब आप सुहृद् हैं तो फिर आपसे गोप-