देवी भागवत महापुराण
Devi Bhagavata Purana
महर्षि वेदव्यास द्वारा
स्रोत: Gita Press Gorakhpur · Gita Press Gorakhpur (उद्गम)
पृष्ठ 31, कुल 889 में से
संदर्भ में पढ़ें३० श्रीमद्देवीभागवत
तथा वस्त्र देकर निम्न मन्त्रसे उनकी प्रार्थना करे—
बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु।
यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्॥
व्यासरूपप्रबोधज्ञ सर्वशास्त्रविशारद।
एतत्कथाप्रकाशेन मदज्ञानं विनाशय॥
महाध्वजका पूजन
तदनन्तर ईशानकोणमें आकर निम्न मन्त्रसे महाध्वजका पूजन करे—
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढा- नड्वानाशुः सप्तिः पुरन्ध्रियोंषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम्॥
ॐ महाध्वजाय नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि कहकर महाध्वजका पूजन करे तथा निम्न मन्त्रसे प्रार्थना करे—
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः।
स बुध्निया उपमा अस्य विष्ठाः सतश्च योनि मसतश्च वि वः॥
अनया पूजया महाध्वजस्थब्रह्मा प्रीयताम्। एक आचमनी जल छोड़े।
आरती
सभी स्थापित देवोंकी आरती करे—
इदग्ं हविः प्रजननं मे अस्तु दशवीरग्ं सर्वगणग्ं स्वस्तये। आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि। अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त॥ आ रात्रि पार्थिवग्ं रजः पितुरप्रायि धामभिः। दिवः सदाग्ंसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः॥
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि॥
गणपत्याद्यावाहितदेवताभ्यो नमः कर्पूरनीराजनम् समर्पयामि।
जलेन शीतलीकरणम्। आरतीके चारों ओर घुमाकर जल छोड़े। पुष्पैर्देवताभिवन्दनम्। देवताओंको पुष्पद्वारा प्रणाम करे। आत्माभिवन्दनम्। हस्तप्रक्षालनम्। हाथ धोकर पुष्प लेकर निम्न प्रार्थना करे—
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥
राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे। स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु॥ कुबेराय वैश्रवणाय महाराजाय नमः॥
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषान्तादापरार्धात्। पृथिव्यै समुद्र- पर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे। आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति।
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्। सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः॥
ॐ कात्यायन्यै विद्महे कन्याकुमारि धीमहि।
तन्नो दुर्गा प्रचोदयात्॥
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरि॥
प्रधानपीठस्थित भगवतीके चरणकमलोंमें पुष्पांजलि निवेदितकर प्रदक्षिणा करे तथा निम्न मन्त्रसे नमस्कार करे।
नमः सर्वहितार्थायै जगदाधारहेतवे।
साष्टाङ्गोऽयं प्रणामस्ते प्रणयेन मया कृतः॥
स्तुतिपाठ—यदि समय हो तो निम्न स्तुतिपाठ करे—
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो०
श्रीमद्देवीभागवतपाठका विनियोग
ॐ अस्य श्रीमद्देवीभागवताख्यस्तोत्रमन्त्रस्य श्रीकृष्णद्वैपायन ऋषिः, अनुष्टुप् छन्दः, श्रीमन्मणिद्वीपाधि- वासिनी भगवती महाशक्तिः देवता, ब्रह्म बीजम्, गायत्री शक्तिः, भुक्तिमुक्तिके कीलकम्, पुरुषार्थ- चतुष्टयसिद्ध्यर्थं पाठे विनियोगः।
फिर इस प्रकार भगवतीका ध्यान करे—
बालाकार्कयुततेजसां त्रिनयनां रक्ताम्बरोल्लासिनीं
नानालङ्कृतराजमानवपुषां बालोडुराट्शेखराम्।
हस्तैरिक्षुधनुःसृणिं सुमशरं पाशं मुदा बिभ्रतीं
श्रीचक्रस्थितसुन्दरीं त्रिजगतामाधारभूतां स्मरेत्॥
अथवा
सुधाकूपारान्तस्त्रिदशतरुवाटीविलसिते