द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 14, कुल 176 में से
संदर्भ में पढ़ें६ द्रव्यगुणाः । मधुरो धातुविवर्द्धन आयुर्बलवर्णतृप्तिकृत्कण्ठ्यः । सन्धानकृन्मुखादिह्लादकरः स्निग्धगुरुशीतः ॥२॥ अम्लोरुचिदीप्तिकरो मन इन्द्रियबोधनो हृदयतर्पी । एवान्तर्भावो लवणवर्गपाठात् । एते च रसाः परस्परसंयोगात् सप्तपञ्चाशद्भवन्ति । ते पुनश्चरकसुश्रुतादौ अवगन्तव्याः । इह तु विस्तरभयान्नोक्ताः ॥ १ ॥ सम्प्रति रसेषु मध्ये आयुष्यत्वादिगुणयोगेन मधुरस्याद्यनि- र्हितत्वात् तद्गुणान् प्रथममभिदधते मधुर इति । सन्धान- कृदिति । उरःक्षतादीनां मुखादीति आदिशब्दात् घ्राण- जिह्वाकण्ठोष्ठग्रहणम् । स्निग्धगुरुशीत इत्यनेन वातपित्त- हन्तृत्वं बोध्यम् । एतच्च शीतत्वमौत्सर्गिकं तेन क्वचिन्मधुरस्य उष्णत्वमपि ज्ञेयम् । तदुक्तं चरके मधुरं किञ्चिदुष्णं स्याद् यथा चानूपमामिषमिति । यद्यपि गुणानां निर्गुणत्वेन रसेषु स्निग्धा- दयो गुणा न सन्त्येव तथाप्युपचाराद्द्रव्यगुणा एव रसेषु निर्दिश्यन्ते । तदुक्तम् गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये । रसेषु व्यपदिश्यन्ते साहचर्य्योपचारतः ॥ इति । साहचर्य्यमेकार्थसमवायः । उपचारस्य किं फलमिति चेद् ब्रूमः द्रव्यगुणकथने मधुरादिरसनिर्देशेनैव अनुक्ता अपि स्निग्धत्वादिगुणाः प्रायो मधुररससहचारिणो ज्ञेयाः । तेन मधुरत्वं निर्दिश्य पुनः स्निग्धत्वादि न वाच्यं साहचर्य्यलब्ध- त्वात् । यत्र वा उच्यते तत्रातिशयार्थं स्पष्टार्थञ्च ज्ञेयम् ॥ २ ॥ दीप्तिर्वह्नेर्बोधनम् प्रसादः । आर्ज्जवमनुलोमनम् अत्रापि