द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 148, कुल 176 में से
संदर्भ में पढ़ें१४० द्रव्यगुणः । पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्ति हि ॥ १६ ॥ सप्तभिर्देहधातारो धातवो द्विविधं पुनः । अतस्त एव जाठराग्निसन्धुक्षितबलाः सन्तः स्वान् स्वान् पार्थि- वादीन् पञ्चाहारगुणान् पचन्ति । पूर्वस्थितपार्थिवादिगन्धविल- क्षणान् पाकेन निवर्त्तयन्तीत्यर्थः । एतदेव चरके विविधाशित- पीतीये उक्तम् । विविधाशितं पीतञ्च लीढं खादितं जन्तो- र्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपाच्य- मानमिति । आहारस्य गुणाः आहारगुणाः । किं वा आहा- राश्च गुणाश्च आहारगुणाः । यद्यपि भूताग्निना द्रव्याण्येव पच्यन्ते नतु गुणाः उक्तं हि जाठरेणाग्निना पूर्वं कृते सङ्घातभेदने । पश्चाद् भूताग्नयः पञ्च स्वं स्वं द्रव्यं पचन्ति हि ॥ तथापि द्रव्यपाकवशाद् विशिष्टगन्धादिगुणा जायन्ते इत्य- भिप्रायेण गुणानामपि पाक उक्तः । ननु तेजः स्वयमेव पाच- कम् तस्य पाचकेनाग्न्यन्तरेण किं क्रियते । ब्रूमः न वयं तेजसि पाचकमग्निं स्वीकुर्मः । किन्तु तैजसस्य सुवर्णादिद्रव्यतुल्यस्य पित्तादेः पाकजन्यत्वेन पाचकाग्न्यपेक्षा युक्तैव । एवं वायवीय- नाभसद्रव्ययोरप्याश्रित उष्मा वात्वग्निनाभसाग्निवाच्यो ज्ञेयः ॥ १६ ॥ भौतिकाग्नि-व्यापारमभिधाय-विशिष्ट-धात्वग्निव्यापारमाह सप्तभिरित्यादि । पुनरिति जाठराग्निपाकानन्तरम् । द्विविध- मिति द्विप्रकारम् । तदेव प्रकारद्वयमाह किट्टप्रसादवदिति किट्टप्रसादरूपमित्यर्थः । वतिरयमर्द्धार्थे । किं वा किट्टप्रसादव- दिति मतुबन्तं क्रियाविशेषणम् । ननु धात्वग्निवदुपधातुम-