द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 18, कुल 176 में से
संदर्भ में पढ़ें१० द्रव्यगुणः । ण्यादयो गुणा उपाधित्वेनाङ्गीकृताः । ते तु द्रव्यसमवायिनो रसादिषु पुनरुपचरितवृत्तय इति । उक्तञ्च गुणाः कर्मव्यवस्थायै द्रव्याणां रसपाकयोः । शक्तेः कर्मसु शक्ता ये निरुपाधेरुपाधयः ॥ इत्याहुः । यत्पुनमृदु तीक्ष्णं गुरु लघु स्निग्धरूक्षोष्ण- शीतलं वीर्य्यमष्टविधं केचित् । केचिद्द्विविधमास्थिताः शीतोष्ण- मिति । मतभेदेनाष्टविधं द्विविधं वा वीर्य्यमिति । उक्तञ्चरकेण तत्पारिभाषिकवीर्य्यपुरस्कारेण । वैद्यके हि रसविपाकप्रभा- वातिरिक्ते प्रभूतकार्य्यकारिणि गुणे वीर्य्यमिति संज्ञा तेनाष्ट- विधवीर्य्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्य्यं प्रायः कुर्व्वन्तीति तेषां रसाद्युपदेशेनैव ग्रहणं मृद्वादीनाम- ष्टानान्तु रसाद्यभिभावकत्वमस्ति । तथा पिप्पल्यां कटुरस- कार्य्यं पित्तकोपममभिभूय तद्गते मृदुशीतवीर्य्ये पित्तमेव शमयत इति । तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्य्यं वातकोपनमभिभूय उष्णेन वीर्य्येण तद्विरुद्धं वातशमनमेव क्रियते । तथा मधुरेऽपीक्षौ शीतवीर्य्यत्वेन वातवृद्धिरित्यादि । सुश्रुतेऽप्युक्तम् एतानि खलु वीर्य्याणि स्वबलगुणोत्कर्षाद्रसमभि- भूयात्मकर्म दर्शयन्तीति । शीतोष्णवीर्य्यवादिमतन्तु अग्नीषो- मीयत्वाज्जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम् । उक्तञ्च नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ । व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित् ॥ प्रथमवादिमते शक्तिमात्रं वीर्य्यं तद्योगात् रसादीनामपि वीर्य्यसंज्ञा । पारिभाषिकवीर्य्यवादिमते तु शक्तिविशेषो वीर्य्यं तद्योगात् मृदुतीक्ष्णादीनामेव वीर्य्यसंज्ञा नापरेषां गुणाना- मिति । शास्त्रे व्यवहारस्तु पारिभाषिकवीर्य्यनयेनैवेति । भवतिचात्र