गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 279, कुल 286 में से
संदर्भ में पढ़ें८
हस्तपतितानि पुस्तकानि शीर्णतामवाप्य घुणानां कीटकान्तराणां चोपभोग- भाजनानि भवन्ति । अथ च बहवो मुद्रणाधिकारिणः स्वार्थशेमुष्या अवैद्येभ्यः संशोध्यैवाशुद्धप्रायाणि पुस्तकानि मुद्रयन्तीत्यादिकारणवशादाय़ुर्वेदीयग्रन्थानां प्रलयत्वमेवापाद्यते । परमीशानुकम्पया सोऽयं महान्भावः साम्प्रतमभ्युन्नति- चिकीर्षुणा वैद्यवरश्रीयादवशर्मणा महतायासेन प्राक्तनान् ग्रन्थरत्नानन्वेष्य सं- शोध्य मुद्रयित्वा च निरस्तः । प्रियवयस्येनायुर्वेदसमुद्धरणे ह्यतीव श्रमः समनु- ष्ठितः प्राचीनायुर्वेदग्रन्थरत्नलोकोलोचनगोचरीभावायेति श्लाघ्यः प्रयत्नः । अखि- लभारतवर्षीयैर्वैद्यैर्विद्वद्भिश्चावश्यं ग्राहकसंख्याः संवर्ध्य संवर्धनीयः समुत्साहप्रवाहः किल प्रकाशकमहोदयस्य । येनाभ्युन्नतिमाप्नुयादहरह आयुर्वेदीयग्रन्थमालेति शम् ।
पौषकृष्णनवमी सं० १९६७. किशोरीवल्लभः ।
देहलीनगरस्थबनवारीलाल-आयुर्वेदविद्यालयाध्यापकानां वैद्यराजपण्डित श्री मनोहरलालशर्मणामभिप्रायः— श्रीमन्महोदयः ! सानन्दं निवेदयामः—याऽधुनाऽयुर्वेदीयग्रन्थमालाविर्भूता संदृश्यते, साचेयं पुरातनायुर्वेदीयतन्रोद्धतरत्नैर्ग्रथिता श्रीयादवत्रिविक्रमाचार्य्यभिषग्भिः सद्धिप्र- जामुपकाराय मालेव प्रतिभाति । किञ्चात्रायुर्वेदियसयोगा विविधगदप्रशनक्षमा दरीदृश्यन्ते, यैश्चाशु दाक्ष्यं स्याद्विदुषां भिषजामेवेति ॥
$\left.{l}इन्द्रप्रस्थ ता० ३०-१-१९११.\right}$ \quad {l}पं० मनोहरलाल शर्मा वैद्यराजः बनवारीलाल-आयुर्वेदविद्यालयाध्यापकः
भोलादग्रामवास्तव्यानां वैद्यवर्याणां 'नागरदास मोहनलाल पाठक' इत्येषा- मभिप्रायः— प्रिय विद्वन्मण्डन महाशय ! प्राचीनायुर्वेदीयपुस्तकोद्धरणप्रयासं आयुर्वेदीयग्रन्थमालाभिधानमासिकपत्रि- कामुखेन कृतं श्रीमद्भिर्भवद्विदीक्ष्याऽऽनन्दार्णवनिमनोऽहं लिखाम्यभिनन्दनम्- यत्नं समस्तविदुषां मुदमावहन्तं श्रीमद्भवत्कृतमुदीक्ष्य मुदं दधेऽहम् ॥ श्रीशैलराजतनयाश्रितवामभागस्त्वां तत्फलेन निजधर्मजुषं युनक्तु ॥ १ ॥ योऽङ्गीकृतोऽत्र भवता सुमहान् प्रयासः प्राचीनपुस्तकगणोद्धरणक्रियायाम् ॥ सेवा पृथग्मनुजवर्गसुदुष्करा सा सम्पादिता हि विदुषां भवता पृथिव्याम् ॥ २ ॥