गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 87, कुल 286 में से
संदर्भ में पढ़ेंएलामृणालकुष्ठप्रियङ्गुकाश्मीरपुरलोहैः । श्रीवेष्टकसर्जरसैश्चन्दनशैलेयरजनीभिः ॥ ४०९ ॥ दारुशताह्वापथ्यैः केसररसपेलवघनैश्च । तीर्णो मालतीकुसुमैः सहचरनीलाञ्जवनपतितः॥ ४१० मेदोस्थिमजमांशासृग्रुधिरशुक्रसंश्रयांश्चिरोत्पन्नान् । हन्याद्वातविकारानशीतिमेतन्महानीलम् ॥ ४११ ॥ वातरोगे दशमूलाद्यं तैलम् । दशाङ्घ्रिकेशरारिष्टब्राह्मीपाठाकटुत्रिकैः । शठीपुनर्नवाभार्गीसुरसाम्बुफलत्रिकैः ॥ ४१२ ॥ शङ्खपुष्पीत्वगेलार्कमुनिपादपपल्लवैः । अङ्कोटवरुणास्फोटशिरीषकटभीफलैः ॥ ४१३ ॥ कृमिघ्नमूलशम्पाकसर्पामरदारुभिः । प्रियङ्गुहिङ्गुमञ्जिष्ठासुमुखातन्दुलीयकैः ॥ ४१४ ॥ गिरिकर्णीवचाकुष्ठकङ्गुष्ठरजनीद्वयैः । मधुकसारसिन्धूत्थसितनीलोत्पलाम्बुदैः ॥ ४१५ ॥ कटुतैलं समैरेभिः पक्कं क्षीरे चतुर्गुणे । सोन्मादं हन्त्यपस्मारं पानाभ्यञ्जननावनैः ॥ ४१६ ॥ डाकिनीभूतवेतालनैगमेषादिकान् ग्रहान् । कृत्याभिचाररक्षांसि नाशयत्यखिलान्यपि ॥ ४१७ ॥ तैलमेतत्सुरेन्द्रेण नन्दस्य कथितं पुरा । बालस्य किल रक्षार्थ विष्णोरमिततेजसः ॥ ४१८ ॥ १ अनेकनीलपुष्पयुक्तं सहचरं शतपलमितं समूलपत्रशाखमुत्पाट्य खण्डशः प्रकल्पयित्वा संक्षुद्य द्रवद्वैगुण्यग्रहणविधानात् द्विद्रोणमिते जले प्रक्षिप्य तीव्रा- तपे शोषयेत् । पादशेषे कषाये गालयित्वा, तैलप्रस्थद्वयं, अष्टप्रस्थमितं दुग्धं, मदगन्धा.(सप्तपर्णी)दीनां मालतीपुष्पान्तानां प्रत्येकं कर्षमितानां कल्कं च दत्त्वा मन्दाग्निना तैलं साधयेदिति भावः ।