भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

यच्च शल्यशालाक्याद्यष्टाङ्गभूतं वेदसमकालं किलायुर्वेदशास्त्रं, तच्छरी- रायुर्रिरामयत्वलाभाद्धर्मादिचतुर्वर्गसाधनत्वं तस्येति धर्मादिचतुर्वर्गलिप्सूनां प्राणिनां रागाद्याध्यात्मिकैरुन्मादाद्याधिदैविकैः कुष्ठाद्याधिभौतिकैश्चानेकविधरोग- भुजङ्गैः संदष्टानां समूलरोगनिवृत्तये परमकारुणिकैरात्रेयकश्यपशाण्डिल्यभरद्वा- जादिमहर्षिभित्रिकालज्ञानशालिभिर्मुनिभिः स्वास्थ्यानुवृत्तिपुरःसरं दीर्घायुर्लभा- यानेकविधा आरोग्योपजीवनभूता विरचिताः संहिताः । ताः कदाचिदत्युत्तमोन्न- तिपदारूढाश्वासन् । याः संहिताः सम्यगधीत्य पुरातनैरातिदुरुहायुर्वेदमर्मज्ञैर्वि- शुद्धबुद्धिभिश्चिकित्सकवरैरेव रसायनैरन्यैश्च दिव्यौषधितल्लजैश्चयवनादीनां जरा- राजयक्ष्मादिरोगार्तानामारोग्यं विधायातिजराभिभूतानां नूनं नूतनं वयःस्थापि- तमिति । तासु समुपलभ्यमानास्वप्यनेकासु संहितासु हन्त बह्व्यः संहिताः कुत्रचिद्विद्यमाना अपि इदानीं दृष्टमपि नोपलभ्यन्ते । परं संतुष्यति चेतः खलु आयुर्वेदीयग्रन्थमालायां संप्रथिता रसहृदयादिग्रन्थाः, ये हि पुरा लुप्तप्राया अत एव सुदुर्लभाश्च प्रकाश्यन्ते । अन्येषां च ग्रन्थानां तादृशानां संप्रकाशने ह्यस्मत्सुहृद्वैरायुर्वेदोद्धारकैराचार्ययादवजीमहोदयैर्महानायासः समुत्तष्ठितः । स खलु प्रभूतमभिनन्दनीयो धन्यवादाईश्चार्यमहाशयः । अधुना परिम्लायमाना- प्यायुर्विद्यावली कादम्बिन्या इवास्याः प्रादुर्भावेन भूयः पल्लविता पुष्पशालिनी फलसंकुला च स्यादिति वरीवृत्यतेऽस्माकमवितथो मनोरथः । तथाहि— आप्लावयत्वस्मिन्नवसरे पण्डितराजवचोवीचिरस्मद्धृदयप्रदेशम् ।— “आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा वात्याभिः परुषीकृता दशदिशश्चण्डात्तपो दुःसहः । एवं धन्वनि चम्पकस्य सकले संहारहेतावपि त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥” सर्वेषामेव भारतवर्षीयायुर्वेदारविन्दमलिन्दानामतीव सांप्रतं संप्रति स्वकी- याधिहोमजन्योत्साहधूमस्तोमैरस्याः कादम्बिन्याः संवर्धनमिति साग्रहमभ्यर्थ- यते, अपि चायुर्वेदीयग्रन्थमाला चिरायुष्मती तत्प्रकाशकश्च चिरायुर्भूयादित्या- शास्ते च पौषशुक्लद्वादश्यां $\left.{l}

\right}$ श्रीरामेश्वरमिश्रो वैद्यशास्त्री । चन्द्रे, सं० १९६८ विक्रमाब्दे नयागंज, कानपुर.

१५ ( राजमार्तण्डादुद्धर्तोशः ) वातज्वरे शुण्ठ्यादिः क्वाथः। वातज्वरोपशमनाय पिबेत्सुधी- दुःस्पर्शनागरघनकथितं कषायम् पित्तज्वरे नलदादिकषायः । पित्तोद्भवे नलदपर्पटकाब्दशुण्ठी- श्रीखण्डनैः कथितमेतदुशन्ति वैद्याः ॥ १९९ ॥ कफज्वरे शुण्ठ्यादिकषायः । शुण्ठीग्रवासकट्फलान्नकृतः कषायः श्लेष्मोद्भवं शमयति ज्वरमाशु पीतः। सर्वज्वरे शुण्ठ्यादिकषायः । सर्वज्वरप्रशमनार्थमुदाहरन्ति विश्वौषधेन सह पर्पटकं मुनीन्द्राः ॥ २०० ॥ ( ज्वराधिकारः २० ) ( रससारादुद्धर्तोशः ) पुरा शुद्धो रसेन्द्रश्च संस्कारैश्चैव संस्कृतः । चारयेज्जारयेच्चं च महासिद्धिप्रदो भवेत् ॥ १ ॥ लोहखल्वे चतुष्पादे रसं तत्र विनिक्षिपेत् । क्षाराम्लवेतसं काङ्क्षी विडं द्वात्रिंशदंशकम् ॥ २ ॥ चतुःषष्ठ्यंशकं व्योम ग्रासं दत्त्वा रसस्य तु । टङ्कणं हयलाला च लशुनार्द्रकचित्रकम् ॥ ३ ॥ मधुनिम्बरसं दत्त्वा यामयुग्मं विमर्दयेत् । सोष्णखल्वे चरेद्ग्रासं गर्मद्रुतिमवाप्नुयात् ॥ ४ ॥ नष्टपिष्टं परिज्ञाय यत्नेन क्षालयेद्रसम् । सोमांनलस्य यन्त्रस्य नाभिमध्ये रसं क्षिपेत् ॥ ५ ॥ दत्त्वाऽष्टांशं विडं नाभिं किञ्चिदम्लेन पूरयेत् । क्षाराम्लं त्र्यूषणं मूत्रं राजिकाशिग्रुचित्रकम् ॥ ६ ॥ ( पटलः १२ ) १ 'चारयेन्मारयेच्चक्रे' ग. । २ 'नालिमघ्ये' ग. ।