भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 106, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 106

चतुर्थः पटलः । —————— पार्वत्युवाच देवदेव महादेव लोकानां हितकारक । यत्सूचितं पुरा नाथ किमर्थं न प्रकाशितम् ॥ १ ॥ राजराजेश्वरीदेव्यास्त्रिपुरायाः शुभावहम् । कवचं यदि मे प्रीतः कथयस्व वृषध्वज ॥ २ ॥ ईश्वर उवाच लक्षवारसहस्राणि वारितासि पुनःपुनः १। स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ॥ ३ ॥ अत्यन्तं दुर्लभं गुह्यं कवचं सर्वकामदम् । तथापि कथयाम्यद्य तव प्रीत्या वरानने ॥ ४ ॥ त्रैलोक्यमोहनं नाम त्रिषु लोकेषु दुर्लभम् । सर्वसौभाग्यजननं भोगमोक्षफलप्रदम् ॥ ५ ॥ यद्धृत्वा दानवान् विष्णुर्निजघान सुदारुणान् । लोकान् वितनुते ब्रह्मा संहर्त्ताहं यतः प्रिये ॥ ६ ॥ धनाधिपः कुबेरोऽपि यतः सर्वे दिगीश्वराः³। नैतत्परतरं गुह्यं प्रतिजाने हि² पार्वति ॥ ७ ॥ वेदशास्त्रपुराणेषु सारमेतद्वरानने । पुत्रदारादिसहितं शिरो देयं कथंचन ॥ ८ ॥ न देयं कवचं गुह्यं प्राणैः कण्ठगतैरपि ।


१ 'र' क पाठ । २ 'जानीहि' क पाठ । ३ 'वो' क. पाठ. ।