भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 132, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 132

सर्वरोगहरे चक्रे बालार्ककिरणारुणे । वशिनीप्रमुखास्तत्र रहस्ययोगिनीर्यजेत् ॥ १०७॥ वशिनीप्रमुखा*रक्ता वराभयकरान्विताः । पुस्तकं जपमालां च दधानाः परमेश्वरि ॥ १०८॥ वशिनीपुरतो देवि सर्वसिद्धिप्रदायिनीम् । तथा त्रिपुरासिद्धां च ध्यायेद्विषविनाशिनीम् ॥ १०९॥ त्रिकोणाग्रविभागस्य दक्षिणे वामके प्रिये । चतुष्पथसमायुक्ते बाणचापौ प्रपूजयेत् ॥ ११०॥ त्रिकोणास्योर्ध्वभागस्य वामदक्षिणयोस्तथा । षडध्वरूपयोर्देवि पाशाङ्कुशौ व्यवस्थितौ ॥ १११ ॥ सर्वसिद्धिप्रदे चक्रे त्रिकोणे परमेश्वरि । उद्यत्सूर्यसहस्राभे बन्धूककुसुमप्रभे ॥ ११२॥ अतिरहस्ययोगिन्यः संस्थिता वीरवन्दिते । अग्रकोणे अग्निचक्रे कामरूपे वरानने ॥ ११३॥ कामेश्वरी त्रिनेत्रा च तरुणारुणविग्रहा । चषकं वरदानं च पाशं चाङ्कुशमेव च ॥ ११४॥ दधतीं परमेशानि ध्येया रुद्रात्मशक्तिका । वामकोणे त्रिकोणस्य सूर्यचक्रे महेश्वरि ॥ ११५॥ जालन्धरे महापीठे वज्रेश्वरी समीरिता । त्रिनेत्रा पूर्णचन्द्रास्या बन्धूककुसुमप्रभा ॥ ११६॥ १ 'लक' क पाठ । २ 'स' क. पाठ. ।

  • वशिनी-कामेश्वरी-मोदिनी-विमला-अरुणा-जयिनी-सर्वेश्वरी-कौलिनी-वाग्देवता इत्येता रहस्ययोगिन्यः सर्वरोगहरे वसुकोणचक्रे सपूज्या ।
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक) · पृष्ठ 132, कुल 446 में से · BharatKosha