गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 169, कुल 446 में से
संदर्भ में पढ़ें८८ गन्धर्वतन्त्रे । तस्यैव हि विशुद्ध्यर्थं वायु₁ग्निसलिलाक्षरैः ॥ ६३ ॥ शोषदाहौ तथा भस्मप्रोत्सादोऽमृतवर्षणम् । आप्लावनं च कर्तव्यं पूरकुम्भकरेचकैः ॥ ६४ ॥ पञ्चशुद्धिविहीनेन कृतं यदभिचारवत् । विपरीतफलं दद्याद्भक्त्याभ्यर्चनं तथा ॥ ६५ ॥ शरीराकारभूतानां भूतानां यद्विशोधनम् । अव्ययब्रह्मसंस्पर्शाद् भूतशुद्धिरियं प्रिये ॥ ६६ ॥ अन्तःकरणमध्ये तु ज्योतिरात्मा प्रवर्तते । लिङ्गै₂देहं तु तं₃ प्राहुर्योगिनस्तत्त्ववेदिनः ॥ ६७ ॥ तस्य वै शोधनं चैव सर्वशुद्धिः प्रजायते । तदेव विश्वजननकारणं जन्मकारणम् ॥ ६८ ॥ तत्प्रतीतौ भवेन्मुक्तिर्नान्यतो जन्मकोटिभिः । प्राणायामत्रयं कृत्वा योनिमुद्रां ꕤ तथा स्मरेत् ॥ ६६ ॥ विद्याकूटत्रयं देवि वह्न्यर्केन्दुमयं धिया । पुरत्रयेऽथ संचिन्त्य तेषामैक्यं ततः स्मरेत् ॥ १०० ॥ तस्मिंस्तेजोमये (विश्वे?बिम्बे) सच्चिदानन्दधामनि । केवलानुभवानन्दे परँ₄ब्रह्मणि शाश्वते ॥ १०१ ॥ निमज्य बिन्दुगे धाम्नि क्षणं स्थित्वा तु चिन्तयेत् । बालार्ककिरणारक्तं तत्तत्तेजोमयं स्मरेत् ॥ १०२ ॥
१ 'ष्वा' ख पाठ । २ 'ङ्ग' ख पाठ । ३ 'तत्' ख पाठ । ४ 'रम्' ख पाठः ꕤ तल्लक्षण यथा— मिथ कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके । अनामिकोध्र्व संश्लि- ष्टदीर्घमध्यमयोध्र्वं । अङ्गुष्ठाग्रद्वय न्यस्येद्योनिमुद्रयमीरिता ॥ इति ।