गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 171, कुल 446 में से
संदर्भ में पढ़ेंनवमः पटलः । ईश्वर उवाच देव एव यजेद्देवं नादेवो देवमर्चयेत् । न्यासं विना जपं प्राहुरासुरं विफलं शिवे ॥ १॥ न्यासात्तदात्मको भूत्वा देवो भूत्वा तु तं यजेत् । प्राणायामैस्तथा ध्यानैर्न्यासैर्देवशरीरता ॥ २॥ न्यासविधिं शृणु प्राज्ञे करशुद्धिपुरःसरम् । मातृकाद्यं समुद्धृत्य द्वितीयं च सबिन्दुकम् ॥ ३॥ शान्तान्तं कौदिसंयुक्तमेकारान्तान्तयोजितम् । एवमेषा महाविद्या करशुद्धिकरी ☫ मता ॥ ४॥ गृहीत्वा रक्तपुष्पं च सगन्धं साधकस्ततः । अनेनैव तु मन्त्रेण पुष्पं हस्ततलस्थितम् ॥ ५॥ संमार्ज्य सव्यहस्तेन वामेन पाणिना ततः । निर्मञ्छ्य कामबीजेन जिघ्रपेद्वाग्भवेन तु ॥ ६॥ ऐशान्यां निःक्षिपेदेतच्छ्लेषबीजेन पार्वति । अङ्गुल्यग्राणि शुद्धानि पुष्पस्य ग्रहणाद्भवेत् ॥ ७॥ मर्दनात् करयोः शुद्धिर्निर्मञ्छनात् पृष्ठयोः । घ्राणाद्देवाश्च तुष्यन्ति तीर्थानां च समागमः ॥ ८॥ प्रक्षेपात् सर्वविघ्नानां दूरसंस्थानमेव च । १ 'न्तक' क पाठ । २ 'कोत्तम' ख पाठ । ३ 'शव' ख पाठ । ☫ सबिन्दु मातृकाद्य अ द्वितीय च आ शान्तेत्यादिना सौ इत्येषा करशुद्धिकरीविद्या ।