गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 187, कुल 446 में से
संदर्भ में पढ़ें१०६ गन्धर्वतन्त्रे । विन्यसेद्देवि युक्तात्मा त्रिकालं च दिवा निशि । यथा साभ्यासयोगेन सामर्थ्यं तद्वदाम्यहम् ॥ १०० ॥ यत्रायं निवसेद्देवि षोढान्यासी च साधकः । दिव्यं क्षेत्रं भवेत्तत्र समन्ताच्छतयोजनम् ॥ १०१ ॥ देवाः सर्वे नमस्यन्ति तं नमामि न संशयः । कृत्वा न्यासमिमं देवि यत्र गच्छति साधकः ॥ १०२ ॥ तत्र यद्विषये चैव यन्मानं¹ पुरुषैः सह । द्यावान्तरिक्षभूशैलजललाररायनिवासिनः ॥ १०३ ॥ भूतप्रेतपिशाचाश्च यक्षकूष्माण्डराक्षसाः । पश्यन्ति पावकारूढं ये चान्ये हिंसका जनाः ॥ १०४ ॥ शत्रुसंहतिसंकीर्णे² संग्रामेऽथापदेषु च । न भयं विद्यते तस्य परत्र शिवतां व्रजेत् ॥ १०५ ॥ ये केचित् पापसंघाताः सप्तजन्मान्तरोद्भवाः । नश्यन्ति न्यासमात्रेण भास्करेण तमो यथा ॥ १०६ ॥ सतताभ्यासयोगेन षण्मासेन च मानवे³ । दह्यते सर्वपापानि ब्रह्महत्यादिकानि च । किंचातिबहुनोक्तेन मम तुल्यो भवेद् ध्रुवम् ॥ १०७ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे षोढान्यासक्रमनिरूपणं दशमः पटलः ॥ १० ॥ १ 'षण्मा' क पाठः । २ 'र्णे' क पाठ । ३ 'व' क पाठ. ।