गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 250, कुल 446 में से
संदर्भ में पढ़ेंसप्तदशः पटलः । १६६ मायालक्ष्मीसमायोगं कृत्वा पूर्वं महेश्वरि । तथैव सिद्धिशब्दान्ते श्रीपादुकां ततो वदेत् १॥ १० ॥ पूजयामीति मनुना पूजयेदुक्तमार्गतः । तथा द्वितीयरेखायां ब्रह्माण्याद्याः प्रपूजयेत् ॥ ११ ॥ असिताङ्गं रुरुं चैव चण्डं क्रोधं तथैव च । उन्मत्तं च तथा देवि भैरवं च कपालिनम् ॥ १२ ॥ भीषणं चैव संहारं ताभिः सह प्रपूजयेत् । सर्वसंक्षोभिणीमुख्यास्तथा तृतीयरेखगाः ॥ १३ ॥ करशुद्धिकरीं पूर्वे पूजयेच्चक्रनायिकाम् । दक्षिणे पूजयेद् देव्या मुद्रा संक्षोभकारिणीम् ॥ १४ ॥ अ[नि?ग्णि]मां पूजयेद्वामे बुद्धं तस्याः पुरः पुनः । मध्यमे मध्यतः कृत्वा कनिष्ठेऽङ्गुष्ठ[बो?रो]धिते ॥ १५ ॥ तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके । एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणी ॥ १६ ॥ (खा?था)न्तं ॐ वह्निसमारूढं द्वितीयस्वरभूषितम् । नादबिन्दुकलायुक्तं बीजं तस्याः प्रकीर्तितम् ॥ १७ ॥ आदाय दक्षहस्तेन विशेषार्घ्योदकं ततः । बीजद्वयं समाभाष्य तथैताः प्रकटास्ततः ॥ १८ ॥ योगिन्यश्च समुद्राश्च ससिद्धयश्च सायुधाः । तथा सपरिवाराश्च सर्वोपचारकैस्तथा ॥ १६ ॥ त्रैलोक्यमोहने चक्रे त्रिपुराधिष्ठिते तथा । १ 'रीपूर्वां' क. पाठ । ॐ थान्तमित्यादिना द्रीं इति बीजोद्धारः कृतः ।