गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 269, कुल 446 में से
संदर्भ में पढ़ें१८८ गन्धर्वतन्त्रे । भित्त्वा छित्त्वा तथा लोकान् संतोष्य परमेश्वरीम् । तस्यै निवेद्य चात्मानं यास्यामि ब्रह्म शाश्वतम् ॥ १०५ ॥ तस्माद्यत् क्रियते कर्म ममेति च यदा भवेत् । आत्मानं तत्पदाम्भोजे महामन्त्रेण चार्पयेत् ॥ १०६ ॥ तर्पणानि पुनर्दत्त्वा नवमुद्राः प्रदर्शयेत् । मुदं रान्ति च ता यस्मात् तेन मुद्राः प्रकीर्त्तिताः ॥ १०७ ॥ कामं मोक्षं तथा धर्ममर्थं मुद्रान्विता स्वयम् । ददाति साधकायाशु देवी गन्तुं समुत्सुका ॥ १०८ ॥ संक्षोभद्राविराकर्षवश्योन्मादमहाङ्कुशाः । खेचरीबीजयोन्याख्या नव मुद्रा स्मृताः क्रमात् ॥ १०९ ॥ दर्शितास्वासु मुद्रासु भवेत् पूजासमापनम् । स्वस्वबीजेन मुद्राया बन्धनं परिकीर्त्तितम् ॥ ११० ॥ दर्शनं मूलमन्त्रेण त्यागः क्रोधोद्भवेन च । मुद्रानुष्ठानमज्ञात्वा यो मुद्रां धारयेद्बुधः ॥ १११ ॥ विफलं तस्य तत्सर्वं जीवहीनं वपुर्यथा । पूजादौ दर्शितास्वासु देव्यास्तु संनिधिर्भवेत् ॥ ११२ ॥ भक्तेः प्राचुर्यमत्रैव श्रद्धयाभ्यर्चनं तथा । निर्जनश्चात्मशुद्धिश्च दोषराहित्यता तथा ॥ ११३ ॥ पूजोपकरणस्येह बाहुल्यं च पवित्रता । सौरभेणातिसौरभ्याच्चमत्कारकृतिस्तथा ॥ ११४ ॥ संस्थानं पौरुषेणैव मनोहारित्वमात्मनः । १ 'स्त्रीक' ख पाठः । २ 'नपौ' क पाठ. ।