गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 271, कुल 446 में से
संदर्भ में पढ़ेंएकोनविंशः पटलः । —o— ईश्वर उवाच अथ वक्ष्ये महेशानि वटुकादिविधिं शृणु । येनानुष्ठितमात्रेण साधकः सिद्धिमाप्नुयात् ॥ १ ॥ बलिभिस्तर्पिता ह्येते पूजिता यस्य सुव्रते । सिद्धयः सकलास्तस्य करस्था नात्र संशयः ॥ २ ॥ अन्यथा रुषितैस्तैर्हि स विघ्नैः परिभूयते । तस्मात् तेभ्यः प्रयत्नेन बलिं कुर्वीत हेतुना ॥ ३ ॥ मांसेन साधितं भक्तं खण्डं दधि सपिष्टकम् । मांसानि विविधान्यत्र सुदुग्धं मीनमेव च ॥ ४ ॥ श्रीचक्रमभितो देवि मण्डलानां चतुष्टयम् । ईशान-वह्नि-नैर्ऋत्यवायुकोणेषु पार्वति ॥ ५ ॥ ध्येयो देव्यास्तदा विष्णुः पुत्रोऽयं वटुरूपधृक् । वटुकः कमलाक्षस्तु स्वर्णगौरश्चतुर्भुजः ॥ ६ ॥ गदां शङ्खं च पद्मं च चक्रं चापि दधत्करैः । विद्रुतैः पुरतो देव्याः(गजे?खगे)न्द्रासनसंस्थितः ॥ ७ ॥ ꕤवारुणं शक्रयुक्तं च चतुर्दशस्वरान्वितम् । सहितं चन्द्रबिन्दुभ्यां वटुकाय नमोऽन्ततः ॥ ८ ॥ अनेन मनुना देवि गन्धाद्यैः पूजयेत्ततः ।
१ 'करैर्धृतम्' क पाठ । २ 'त' क पाठ । ꕤ वारुणं व शक्र ल चतुर्दश स्वर औ चन्द्रबिन्दुसहित तेन व्लौं वटुकाय नमः इति ।