भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 289, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 289

द्वाविंशः पटलः —❀— ईश्वर उवाच हृदिस्थं परमात्मानं विहायान्यत् समीहते । अहो मूढो वरारोहे बहिर्यन्मृग्यतेऽन्धवत् ॥१॥ विज्ञाय हृदयान्तःस्थं परं(य?प्र)कृतिगोचरम् । तन्निष्ठकर्मणा चैनमात्मन्येवं प्रतीयते* ॥ २ ॥ तत्प्रतीतौ भवेत् सिद्धो नान्यथा खलु पार्वति । अहं विष्णुः स्वयंभूश्च स्वायंभुवा इमे वयम् ॥ ३ ॥ तदनुभूय देहेऽस्मिंस्तद्देवं समुपास्महे । तदन्तःस्थं समाहूय तद्देवं तु यजामहे ॥ ४ ॥ उद्वास्य च तदात्मानं स्थापयित्वा निजे हृदि । निवेदितं तु तत्प्रीत्यै तस्मिन्नेव निवेदयेत् ॥ ५ ॥ विनामृतं न चान्यत् तु काङ्क्षन्ते देवतागणाः । अमृतेनैव तत्पूजा अमृतं तु निवेदयेत् ॥ ६ ॥ अमृतत्वं लभेद्वीरः स्वीकृत्यात्मनिवेदितम् । इति ते कथितं देवि शेषिका[मत्?मृत]मुत्तमम् ॥७॥ स्थूलसूक्ष्मविभेदेन ज्ञायते कृपया गुरोः । नित्यं नैमित्तिकं[कर्म?काम्यं]चेति तेषां पृथक् पृथक् ॥८॥ त्रिविधं त्रैपुरं कर्म क्रमतस्तत् समाचरेत् । यदुक्तं तामसं त्यक्त्वा तत् सर्वं यत्नतश्चरेत् ॥६॥

  • दैवादिकस्य इङ्गतौ इत्यस्य धातोः कर्तरि अयं प्रयोग ।