गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 295, कुल 446 में से
संदर्भ में पढ़ें२१४ गन्धर्वतन्त्रे । तत्र शांभवभेदेन जपेद्विद्यामनन्यधीः ॥ ६२ ॥ वर्जयेच्छक्तिभेदं तु यदीच्छेदात्मनो हितम् । अरुणकिरणाच्छन्नं यत्पूर्वं भैरवोदयात् ॥ ६३ ॥ अर्धनारीश्वरं ज्ञेयं तत्र पूजा(च?क्रि)याः समाः । उपचारैस्तदा कुर्यात् सपर्यां विधिना तथा ॥ ६४ ॥ वरिवस्यां गृही, समभागेन संस्थितौ यदि । आनन्दपारमिच्छन्तौ सदानन्दविवर्धिनौ ॥ ६५ ॥ पूर्वापरौ महापुण्यौ यदा तौ समरूपिणौ । चिन्तयेत् सततं भक्त्या तौ तत्कालविधानतः ॥ ६६ ॥ शक्तिशांभवभेदेन जपेद्विद्यामनन्यधीः । शुक्लाम्बरो भवेत् तत्र शुक्लमाल्यानुलेपनः ॥ ६७ ॥ रक्ताम्बरधराः पश्येद् रक्तमाल्यानुलेपनाः । दिशश्च विदिशश्चैव रक्ता दृश्या मनीषिभिः । लाक्षारुणमयं विश्वं स्वयं च तत्र तद्भवेत् ॥ ६८ ॥ पद्मरागप्रतीकाशैः² कोटिसूर्यसमद्युतिः । नाथः कामेश्वरस्तत्र ह्येकवक्त्रश्चतुर्भुजः ॥ ६६ ॥ रक्तपद्मनिभां³ देवी बालार्ककिरणारुणाँ । इच्छंस्तद्रूपतां प्राप्तुं तद्रूपा तैं⁴ विशन्त्यतः⁵ ॥ ७० ॥ अनुभूय तदाबन्धं भैरवानन्दसंकुलम् । विपरीतमभीप्सन्ती तदाक्रमणलालसा ॥ ७१ ॥ तदा स[रो?मो]भवेत् कालः सायंसंध्येति गीयते । 'कार्या सपर्या' ख पाठ । २ 'सुरराजममन्त्रिभ' क पाठ । ३ 'भा देवी' क. पाठः । ४ 'शाम्' क पाठ । ५ 'पा ता' क. पाठ. ।