भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 302, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 302

त्रयोविंशः पटलः । २२१ ब्राह्मणी क्षत्रिया वैश्या शूद्रा च कुलभूषणा१ ॥ १९ ॥ वेश्या नापितकन्या च रजकी योगिनी तथा । नानाविदग्ध्यकुशलाः कलारूपगुणान्विताः ॥ २० ॥ तासां रूपं च भावं च विलोक्यामर्षचेष्टितम् । ब्राह्मयाद्यष्टशक्तीनां नामभिः कृतशब्दितैः२ ॥ २१ ॥ आसनं प्रथमं ताभ्यः स्वागतं च पुनः पुनः । अर्घ्यं पाद्यं च पानीयं मधुपर्काचमनीयकम् ॥ २२ ॥ स्नपयेद्३ गन्धपुष्पाद्भिः केशसंस्कारमेव च । धूपयित्वा तथा केशान् कौशेयं४ च निवेदयेत् ॥ २३ ॥ ततः स्थानान्तरे नीत्वा पीठमास्तीर्य भक्तितः । संवेशयेद्विधानेन पूर्वादिक्रमयोगतः ॥ २४ ॥ नानालंकारभूषाद्यैर्भूषयित्वानुलेपनैः । गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ॥ २५ ॥ दुग्धं दधि घृतं तक्रं नवनीतं सशर्करम् । नारिकेलं कपित्थं च नागरङ्कमुत्तमम्५ ॥ २६ ॥ पिष्टकं पायसं चैव नानारससमन्वितम् । दत्त्वा संपूज्य विधिवत् स्तुतिभिस्तोषयेत्ततः ॥ २७ ॥ मातर्देवि नमस्तुभ्यं ब्रह्मरूपधरेऽनघे । कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ २८ ॥ माहेशि वरदे देवि परमानन्दरूपिणि६ ।


पाद-टिप्पणी (Footnotes): १ 'नटकी' ख पाठः। २ 'सञ्जका' ख पाठ. । ३ 'स्त्रा' ख. पाठ । ४ 'षेयं' क पाठ । ५ 'ङ्गेर्धार' क पाठ । ६ 'णी' ख. पाठ ।