गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 304, कुल 446 में से
संदर्भ में पढ़ेंत्रयोविंशः पटलः । २२३ यदि क्रीडापरास्तास्तु भवन्ति भाग्ययोगतः । क्री(डाय?डये)त् क्रीडनैः सर्वाः क्रीडारसपरायणः ॥३६॥ तस्मात् सर्वप्रयत्नेन रक्षितव्याः सदा प्रिये । यथा तु नमिताः प्राज्ञे भक्तिभावपरायणैः ॥ ४० ॥ स्वेच्छाऋतुमती या स्याद्गृहीत्वा रक्तमुत्तमम् । रोचनाचन्द्रकाश्मीरकस्तूर्यगुरुसंयुतम् ॥ ४१ ॥ स्वयंभूकुसुमं दिव्यं फलं वा दिव्यमेव च । गृहीत्वा पूजयेद् देवीं महात्रिपुरसुन्दरीम् ॥ ४२ ॥ कुण्डगोलोद्भवं वापि नान्यत्र कुसुमं भवेत् । मद्यं मांसं मुद्रा शक्तिः स्वयंभूकुसुमं तथा ॥ ४३ ॥ एभिरेव महेशानि प्रत्यक्षीक्रियते परा । द्रव्यसंशोधनं कृत्वा शक्तिशोधनसंभवैः ॥ ४४ ॥ संपूज्य त्रिपुरां देवीमसाध्यमपि साधयेत् । अन्या यदि न गच्छन्ति निजकन्याऽनुजाऽत्मनैः ॥४५॥ अग्रजा मातुलानी तु माता वा तत्सपत्निका । वयसा.जातितो वापि हीना रक्ष्याः स्वसा यथा ॥ ४६ ॥ पूज्याः कुलवरैः सर्वैर्निजाऽहंकारवर्जितैः । स्वयमक्षोभितो भूत्वा मूलयोग न चाचरेत् ॥ ४७ ॥ मूलयोगकृतामायुःसिद्धोऽपि नश्यति ध्रुवम् । सर्वाभावे ह्येकतरा पूजनीया प्रयत्नतः ॥ ४८ ॥ संस्कृतासंस्कृता वापि बन्धकी वाथ निष्पतिः । १ 'त्मजा' क पाठ. ।