गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 320, कुल 446 में से
संदर्भ में पढ़ेंषड्विंशः पटलः । २३६ ते भूमावेव सततं निवसन्ति मदात्मकाः । प्रसन्नवदनाः सर्वे वराभयकरान्विताः ॥ ९ ॥ द्विनेत्रा द्विभुजा एते ललिताकारसंयुताः । मायालक्ष्म्यादिकास्तद्दारूया आनन्दनाथगाः ॥ १० ॥ नवानां नवनामानि नवार्णानि पृथक् पृथक् । तानि सप्ताक्षरीयोगात् प्रत्येकं षोडशाक्षरम् ॥ ११ ॥ नित्याषोडशरूपाणि तानि ज्ञेयान्यनुक्रमात् । विमला जयिनी मध्ये पूज्या एवं वरानने ॥ १२ ॥ नाम पर्यायतः प्राप्तं कालावाप्तमिति द्वयम् । प्रसिद्धं बाह्यतोऽन्यच्च त्रीणि नामानि साधके ॥ १३ ॥ मनुष्यरूपसंप्राप्तः सर्वतन्त्रार्थतत्त्ववित् । मन्त्रतन्त्रावता(वोध?राय)विचराम्यहमेव सः ॥ १४ ॥ गुरुः शाक्तो भवेद् ऋद्धयै तदन्यो विपरीतदः । गुरुः सर्वगुणोपेतो दोषैरस्पृष्टमानसः ॥ १५ ॥ अरोगी नातिवृद्धश्च(स?सु)वचा मि(स्व?ष्ट)भाषणः । सुन्दरः सुमुखः स्वच्छस्त्वलोभी बहुमन्त्रवित् ॥ १६ ॥ असंशयः संशयच्छिन्निन्रग्रहानुग्रहे प्रभुः । निर्द्वन्द्वो निरहंकारः सत्यवादी दृढव्रतः ॥ १७ ॥ आश्रम्याश्रमधर्मज्ञो मात्सर्यरहितः शुचिः । अबहुमन्त्रदो वाग्मी जपपूजापरायणः ॥ १८ ॥ सर्वतन्त्रार्थवेत्ता च दयावान् नच हिंसकः । १ ' सुलभो ' ख पाठ ।