गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 328, कुल 446 में से
संदर्भ में पढ़ेंसप्तविंशः पटलः ईश्वर उवाच अथ पूर्वानुसारेण नित्यं प्रातः समाप्य च । देवान् पितॄन् समभ्यर्च्य वस्त्रालंकारभूषणैः ॥ १ ॥ आचार्यं वृणुयाद् भक्त्या ब्राह्मणानपि तोषयेत् । शिष्यः [सा?स्व]लंकृतो मौनी पुष्पचन्दनभूषितः ॥ २ ॥ नानामङ्गलवाद्यैश्च ब्रह्मघोषपुरःसरम् । नारीणां मङ्गलाशीर्भिर्ब्राह्मणानां तथैव च ॥ ३ ॥ जयशब्दान्वितैः स्तोत्रैः संतुष्टः शुद्धमानसः । दीपमालावलीरम्यं नानाधूपप्रधूपितम् ॥ ४ ॥ मण्डपं विधिवद् देवि पूर्ववत् प्रविशेद् गुरुः । पूर्ववदपरं कृत्वासने समुपविश्य च ॥ ५ ॥ तथापरं च निर्वर्त्य कुङ्कुमेन वरानने । वेदिकायां वरारोहे सिन्दूररजसाथवा ॥ ६ ॥ चक्रराजे² तु लिखिते³ तन्मध्ये दर्भविस्तृते । सौवर्णं राजतं ताम्रं मणिकं⁴ च सुलक्षणम् ॥ ७ ॥ द्वात्रिंशदङ्गुलं कुम्भं विस्तारोन्नतिशालिनम् । क्षालयित्वास्त्र(तं?म)न्त्रेण कुम्भं सम्यक् सुरेश्वरि ॥ ८ ॥ चन्दनागुरुकर्पूररोचनाकुङ्कुमैरपि । १ 'भू' क पाठ । २ 'ज' क पाठ । ३ 'त' क पाठ । ४ 'मार्तिकं' क पाठ. ।