गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 331, कुल 446 में से
संदर्भ में पढ़ें२५० गन्धर्वतन्त्रे । शरीरं चापि त(त्रो?त्वो)त्थं तस्मिन्नेव द्विधा शिवः । कञ्चुकितः शिवो जीवो निष्कञ्चुकः परः शिवः ॥ ३१ ॥ आत्मज्ञानमात्मविद्भिः पुरुषार्थः समीरितः । वर्णात्मकं महेशानि नित्याः शब्दाः प्रकीर्तिताः ॥ ३२ ॥ अचिन्त्यस्त्विह मन्त्राणां प्रभावः समुदाहृतः । संप्रदायपरिज्ञानं गुरूणां सिद्धिदायकम् ॥ ३३ ॥ विश्वासाद्गुरुवाक्यानां सर्वसिद्धिरीरिता । प्रामाण्यं चात्र स्वनिष्ठं विश्वासः समुदाहृतः ॥ ३४ ॥ गुरूणां चैव मन्त्राणां देवानामापि पार्वति । मनःपवनयोश्चैवमेकत्वेन विभावनात् ॥ ३५ ॥ अन्तरात्मपरिज्ञानमिति जानीहि पार्वति । आनन्दं ब्रह्मणो रूपं तच्च देहे³ विभावयेत् ॥ ३६ ॥ तस्याभिव्यञ्जकाः पञ्च मकाराद्याः प्रकीर्तिताः । तैरेव यजनं तस्य गुप्त्या सिद्धिर्नचान्यथा ॥ ३७ ॥ प्राकट्यांच्च(व?भ)यं यस्माद् गोपयेन्मातृजारवत् । अभेदभावनादार्थ्यादाज्ञासिद्धिः समीरिता ॥ ३८ ॥ न निन्देद् दक्षिगं वामं न निन्देद् दर्शनानि च । निन्दाद्रोहादिकर्तॄणां गणनां नैव कारयेत् ॥ ३६ ॥ रहस्यकथनं देवि सच्छिष्यैएव नापरे । सदा विद्यानुसंधानं शिवभावेन तत्परः ॥ ४० ॥ कामं क्रोधं तथा लोभं मदमोहौ तथैव च । १ ‘ह’ क पाठः । २ ‘प्रक्टा’ च क पाठ । ३ ‘ध्यायै’ ख पाठ. ।