गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 344, कुल 446 में से
संदर्भ में पढ़ेंअष्टाविंशः पटलः । २६३ होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः ॥ ७६ ॥ इतरेषां तु वर्णानां त्रिगुणादिः समीरितः । एकमङ्गं विहीयेत ततो नेष्टमवाप्नुयात् ॥ ८० ॥ अङ्गहीनं भवेद्यद्यत् तत्तन्नेष्टार्थसाधनम् । सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ॥ ८१ ॥ विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्यतः । न्यूनातिरिक्तकर्माणि न फलन्ति मनोरथान् ॥ ८२ ॥ तान्येवं पूर्णतां यान्ति समस्तानि भवन्ति चेत् । अतो यत्नेन विदुषो भोजयेत् सर्वकर्मसु ॥ ८३ ॥ नियतान्यपि कर्माणि हीनानि द्विजभोजनैः । निरर्थकानि तानि स्युर्बीजान्यूषरगाणि च ॥ ८४ ॥ अथवान्यप्रकारेण पुरश्चरणमुच्यते । ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ॥ ८५ ॥ नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः । ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः ॥ ८६ ॥ अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् । होमस्य तु दशांशेन तर्पणं समुपाचरेत् ।१॥ ८७ ॥ अभिषेकदशांशेन कुर्याद् ब्राह्मणभोजनम् । तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः ॥ ८८ ॥ गुरवे दक्षिणां दद्याद्भक्त्या विप्रान् प्रतर्पयेत् । १ 'स' क. पाठ. । २ 'ज्ञ' क. पाठ. । 'क' ख. पाठ. ।