गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 350, कुल 446 में से
संदर्भ में पढ़ेंएकोनत्रिंशः पटलः । २६६ तेषां समस्तरूपेण पराशक्तिस्तु मातृका । कूटत्रयात्मिका देवी समष्टिव्यष्टिरूपिणी ॥ ३६ ॥ कूटत्रये तु ह्रींकारं देव्या नेत्रत्रयं शुभम् । हकारस्त्वग्निरू[ढ?प]त्वात् संहरेद्भेदसंततिम् ॥ ३७ ॥ रेफः कालाग्निरू[ढ?प]त्वात् पापौघक्षयकारकः । तयोर्विमर्श ईकारो बिन्दुना त्रिगुणात्मना ॥ ३८ ॥ अमृतत्वं करोतीन्दुः कामः कामानशेषतः । सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः ॥ ३६ ॥ विश्वाकारप्रथायास्तु महत्त्वं च (स?य)दाश्रयम् । शिवशक्त्याद्यया मूलविद्यया परमेश्वरि ॥ ४० ॥ जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये । पञ्चभूतमयं विश्वं तन्मयी सा सनातनी ॥ ४१ ॥ तन्मयी मूलविद्या च तथापि कथयामि ते । हकाराद्व्योम संभूतं (ह?क)कारात्तु प्रभञ्जनः ॥ ४२ ॥ रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः । लकारात् पृथिवी जाता तस्माद्विश्वमयी च सा ॥ ४३ ॥ गुणाः पञ्चदश प्रोक्ता भूतानां तन्मयी शुभा । यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता ॥ ४४ ॥ १ 'का देवी' क पाठ । २ 'णीम्' क पाठ । ३ 'त्मना' क पाठ ।