गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 370, कुल 446 में से
संदर्भ में पढ़ेंएकत्रिंशः पटलः । २८६ बन्धूककुसुमैर्होमै सर्वसत्त्वान् वशं नयेत् । क्षीरं दधि मधु त्वाज्यं पृथग्हुत्वा वरानने ॥ १७ ॥ आयुर्बलमथारोग्यं समृद्धिर्जायते नृणाम् । रुधिराक्तेन च्छागस्य मांसेन निशि होमतः ॥ १८ ॥ मधुरत्रययोगेन गुरुणोक्तविधानतः । परराष्ट्रं वशं नीत्वा कामभोगी भवेन्नरः ॥ १९ ॥ द्राक्षाभिर्लञ्चहोमेन सिद्धयोऽष्टौ भवन्ति हि । कदलीफलहोमेन नारिकेलफलैस्तथा ॥ २० ॥ राजानो वशमायान्ति समृद्धिरतुला तथा । जम्बूफलैः स्त्रियः सर्वा वश्या भवन्ति निश्चितम् ॥ २१ ॥ श्रीफलैरतुला लक्ष्मीः पत्रैश्चापि तथा भवेत् । इक्षुखण्डैः सुखावाप्तिस्तद्रसैर्वशगा नृपाः ॥ २२ ॥ तिलाज्यहोमतो देवि सर्वकार्याणि साधयेत् । घृतपायसहोमेन सिताज्यमधुना सह ॥ २३ ॥ त्रैलोक्यं वशमायाति धनधान्यमवाप्नुयात् । सोपस्कारैश्च वटकैरुपसर्गान्विनाशयेत् ॥ २४ ॥ कर्पूरस्य च होमेन वाग्वशे जायते नृणाम् । कुङ्कुमैर्होमतो देवि सर्वदुःखानि नाशयेत् ॥ २५ ॥ कस्तूरीहोमतो देवा वशगा नात्र संशयः । चन्दनागुरुहोमेन सर्वांल्लोकान् वशं नयेत् ॥ २६ ॥ शृणु देवि प्रवक्ष्यामि मानं हवनसिद्धये । पुष्पं समग्रं जुहुयाच्छतसंख्यांस्तिलांस्तथा ॥ २७ ॥ १ 'हुनेद्वापि' क पाठ 'मान्' ख पाठ । २ 'श्य' क पाठ । ३ 'ख्यांस्तिलास्तथा' क पाठ ।