गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 372, कुल 446 में से
संदर्भ में पढ़ेंद्वात्रिंशः पटलः । —=०= ❀ =०=— देव्युवाच वह्नीन्द्वर्कमयी मुद्रा प्रतिष्ठा च कथं भवेत् । ईश्वर उवाच सोमसूर्याग्निरूपाः स्युर्वर्णा लो(क ? ह)त्रयं तथा ॥ १ ॥ स्वराः षोडश सौम्यास्ते सौराः स्युः कादयोऽपरे । आग्नेयास्ते समुद्दिष्टा यादयो दश चापरे ॥ २ ॥ रौप्यमिन्दुस्तथा हेम सूर्यस्ताम्रं हुताशनः । लोहभागाः समुद्दिष्टा स्वराद्यक्षरसंख्यया ॥ ३ ॥ तैर्लोहैः कारयेन्मुद्रामसंकलितसंगताम् । पञ्चामृतैः पञ्चगव्यैः क्षालयित्वा शुभेऽहनि ॥ ४ ॥ भानुवारे शुभे लग्ने पूर्वोक्तमातृकाम्बुजे । मध्यादि स्थापयेत्तेषु पत्रेषु कलशानपि ॥ ५ ॥ तन्तुभिर्वेष्टिताञ् शुद्धान् बहिश्चन्दनचर्चितान् । सुधूपवासितान्देवि दूर्वाक्षतसमन्वितान् ॥ ६ ॥ क्वाथेन पूरयेद्देवि यथावदक्षरोषधैः । रोचनाचन्द्रकाश्मीरमधुकस्तूरिकायुतैः ॥ ७ ॥
१ म' क पाठ ।