गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 374, कुल 446 में से
संदर्भ में पढ़ेंद्वात्रिंशः पटलः । २६३ होमयेत्संस्कृते वह्नौ सहस्रं हविषा तथा । तस्यां संपातयेद्देवि विधिनाहुतिशेषकम् ॥ १९ ॥ संमोहनीं समुद्दिश्य गृहीत्वाज्यं स्रुवेण तु । बीजत्रययुतां देवि मातृकां बिन्दुसंयुताम् ॥ २० ॥ वह्निभार्यान्वितां पश्चात् कृत्वा वै¹ होमयेत्ततः । मण्डले मातृकादेव्याः शिष्यं निवेश्य सादरम् ॥ २१ ॥ सुरास्त्वामिति मन्त्रैस्तु नवभिः कलशैः शुभैः । अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः ॥ २२ ॥ इयं रक्षाकरी मुद्रा विषरोगविनाशिनी । व्यालचौरमृगादिभ्यो रक्षां कुर्याद्विशेषतः ॥ २३ ॥ सर्ववश्यकरी शुद्धा शुद्धिदाशुद्धिहारिणी । तर्जन्यां धारयेदेनां विधिना मनुजेश्वरः ॥ २४ ॥ युद्धे विजयमाप्नोति श्रिया परमया युतः । विभजेन्मातृकां देवि नववर्गांस्तथोदितान् ॥ २५ ॥ नववर्गसमुत्पन्ना नवरत्नेश्वरा ग्रहाः । अर्केन्दुवक्रज्ञगुरुभृगुमन्दाहिकेतवः ॥ २६ ॥ नवरत्नैर्महेशानि मुद्रां कुर्याद्यथेच्छया । तद्रत्नेषु² ग्रहान्सर्वान् पूजयित्वा विधानतः ॥ २७ ॥ आवाह्य पूजयेद्देवीं संमोहनीं परां तथा । जपहोमादिकं सर्वं कुर्यात्पूर्वोक्तवर्त्मना ॥ २८ ॥ यो मुद्रां धारयेदेनां तस्य स्युर्वशगा ग्रहाः । वर्धते तस्य सौभाग्यं लक्ष्मीरव्याहता भवेत् ॥ २९ ॥ १ 'न्या' क पाठ । २ 'तेषु रत्नेषु' क पाठ ।