गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 386, कुल 446 में से
संदर्भ में पढ़ेंचतुस्त्रिंशः पटलः । ३०५ स्रग्भिर्विचित्रभूषाभिर्भूषितोऽतिमनोहरः । कर्पूरशकलोन्मिश्रताम्बूलपूरिताननः ॥ ६४ ॥ निर्वृत्ताखिलचिद्वृत्तिर्मदिराघूर्णलोचनः । विधाय पुरतः शक्तिं सुवेशां सुमनोहराम् ॥ ६५ ॥ दुकूलक्षौमकौशेयैर्नानारत्नैर्विराजिताम् । निर्लेपं निर्गुणं शुद्धमात्मानं त्रिपुरामयम् ॥ ६६ ॥ आत्माभेदेन संचिन्त्य याति तन्मयतां नरः । भोगेन मोक्षमाप्नोति स्वयं त्रिपुरभैरवः ॥ ६७ ॥ तत एव समुत्पन्ना ब्रह्मविष्णुमहेश्वराः । तदेवैते न संदेहस्तस्माद्भिन्नं न भावयेत् ॥ ६८ ॥ भेदावभाषिणो मूढाः पतन्त्येव वरानने । सर्वदो सर्वदाः सर्वास्तोषयेद्भूषयेत् स्त्रियः ॥ ६६ ॥ वासोभूषणगन्धाद्यैः पेयैर्भक्ष्यैर्मुदान्वितः । प्रथमे राजसो भूत्वा द्वितीये तामसो भवेत् ॥ ७० ॥ तृतीये सात्त्विको धर्मी तुर्ये पञ्चपरायणः । पूजाहोमजपान्तेऽस्या बलिभिः शत्रुनिग्रहैः ॥ ७१ ॥ दानभोगैस्तृतीये च चतुर्थे संमतात्मनः । तच्चित्तस्तद्गतप्राणो मदिरामदविह्वलः ॥ ७२ ॥ सात्त्विको दिव्यभावस्तु स्थिराय जायते पुनः । नाशाय (सै ? चै) व भावस्तु तामसः खलु मानुषे ॥ ७३ ॥ विपर्ययाद्भवेन्मृत्युर्कालसंभवः शिवे । विषशस्त्रजनैश्चौरैर्दस्युभिर्वा वरानने ॥ ७४ ॥ १ 'परित' क पाठ । २ 'पे' क पाठ । ३ 'भामिन्यो' क पाठ । ४ 'दा' क पाठ । ५ 'चतुर्थे' क पाठ । ६ 'म' क पाठ । ७ 'त्ता' क पाठ । ८ 'णा' क पाठ ९ 'क्षा' क. पाठ. ।