गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 391, कुल 446 में से
संदर्भ में पढ़ें३१० गन्धर्वतन्त्रे । सु¹भक्त्या प्रणमेद्यस्तु शक्तिमेकाग्रचेतसा । तस्य सर्वार्थसिद्धिः स्यादन्ते मोक्षमवाप्नुयात् ॥ १० ॥ निश्चयं मुक्तिमाप्नोति सहस्रैशक्तिपूजनात् । शक्तिपूजासु विमुखः पामरः पुरुषाधमः ॥ ११ ॥ स निर्लज्जः कथं ब्रूते पूजयामि महेश्वरीम् । पूजाहोमं विना चेह नाधिकारः कथंचन ॥ १२ ॥ विना होमं महेशानि शक्तियागमकारणम् । शक्तियागं विना होमो निष्फलो नात्र संशयः ॥ १३ ॥ तस्माद्भावविशुद्धात्मा सर्वतन्त्रार्थकोविदः । साधकोऽपि च तत्त्वज्ञो नित्यं शक्तिं समाश्रयेत् ॥ १४ ॥ मदिराया न वा शक्तौ जातिवृत्तिं विचारयेत् । नानाजातिषु सम्भूतां व्रजेत् संप्राप्य न त्यजेत् ॥ १५ ॥ सर्वशङ्काविनिर्मुक्तः सर्वज्ञः साधकोत्तमः । शक्तियागविधिं कृत्वा भवेद्भूमौ पुरन्दरः ॥ १६ ॥ पूजयेदर्थरात्रे च निर्जने पशुवर्जिते । सर्वालंकारसुभगो गन्धचन्दनभूषितः ॥ १७ ॥ आकृष्य विमलां शक्तिं रमणीं वामलोचनाम् । हारा³लंकारसुभगां घृणालज्जाविवर्जिताम् ॥ १८ ॥ परार्ध्यास्तरणे रम्ये स्थापयेत्² तूलिकोपरि । स्थापयेत् सुरया पूर्णं कुम्भं वामे सुवासितम् ॥ १६ ॥ आनन्दहृदयं कृत्वा सद्यः प्रसन्नमानसः । गुरुं नत्वा विधानेन ह्यमृतं तद्विचिन्तयेत् ॥ २० ॥ १ ‘स्व’ क पाठ । २ ‘स्र’ ख पाठ । ३ ‘नाना’ ख पाठ । ४ ‘दाफलो’ क ख पाठ ।