गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 418, कुल 446 में से
संदर्भ में पढ़ेंऊनचत्वारिंशः पटलः । ३३७ कर्तृत्वमात्मनो देव तदविद्याभ्रमो महान् । व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् ॥ १६ ॥ दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी । आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः ॥ २० ॥ स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः । देहेन्द्रियगुणान् कर्माण्यमले सच्चिदात्मनि ॥ २१ ॥ अध्यासत्यात्माविवेकेन गगने नीलतामिवै । अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि ॥ २२ ॥ कल्प्यन्तेऽम्बुगते चन्द्रे चलनादिर्यथाम्भसः । रागेच्छासुखदुःखादि (वृ ? बु) द्धौ सत्यां प्रवर्तते ॥ २३ ॥ सुषुप्तौ नास्ति तन्नाशे तस्माद् बुद्धेस्तु नात्मनः । प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोषष्णता ॥ २४ ॥ स्वभावैः सच्चिदानन्दनित्यनिर्मलतात्मनः । आत्मनः सच्चिदंशश्च बुद्धेर्वृ (द्धि ? त्ति) रिति द्वयम् ॥ २५ ॥ संयोज्य चाविवेकेन जानामीति प्रवर्तते । आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति ॥ २६ ॥ जीवः सर्वमलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति । रज्जुसर्पवदात्मानं ज्ञात्वा जीवो भयं वहेत् ॥ २७ ॥ नाहं जीवः परात्मेति ज्ञातश्चैं निर्भयो भवेत् । आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाणि हि ॥ २८ ॥ दीपो घटादिवत् स्वात्मजौतैस्तैर्नावभास्यते । स्वबोधे नान्यबोधेच्छा बोधरूपस्य चात्मनः ॥ २६ ॥ 'विवेकी चा' क पाठ । २ 'न्मवि' क पाठ । ३ 'वत्' क पाठ । ४ सत्या, ख पाठ । 'वस' क पाठ । ६ 'जीव सवमय ज्ञात्वा ज्ञात्वा दृ' क पाठ । ७ श्चेन्नि क, पाठ । धश्च' क पाठ । ६ 'पंस्तथा' क पाठ. :