भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 439, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 439

३५८ गन्धर्वतन्त्रे । हृत्कमलं शिरश्चैव सत्त्वे यावद्व्यवस्थितम् । देहसंस्थित इत्युक्तः शिवेन परमात्मना ॥ १८ ॥ यावन्न चलते जीवस्तावन्निश्चलतां गतः । नाभिस्थो निष्कलं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥ १६ ॥ नाभिस्थः सर्वकालेषु हृदि तिष्ठति सर्वगः । वक्त्रनासापुटान्तःस्थो भुङ्क्ते च विषयान् प्रभुः ॥ २० ॥ जीवः पश्यति देहस्थो जीवते२ च महेश्वरः । भुङ्क्ते भोगं शुभं जीवो देही३ देहे व्यवस्थितः ॥ २१ ॥ देहं त्यक्त्वा यदा जीवो बहिराकाशमाश्रितः । तदात्मविषयो जीवो जायते नात्र संशयः ॥ २२ ॥ तदिदं निष्कलं ब्रह्म ध्यायेदिति सदाशिवम् । ध्यात्वा शिवं च सहजं मुच्यते भवबन्धनात् ॥ २३ ॥ सर्वगः सर्वदेहस्थो नासाग्रे च प्रतिष्ठितः । प्रत्यञ्चः सर्वभूतानां दृश्यते नच लक्ष्यते ॥ २४ ॥ नाभिमध्ये स्थितं जीवं शुद्धतत्त्वं तु निर्मलम् । आदित्यमिव दीप्तं तु रश्मिभिर्ज्वलितं शुभम् ॥ २५ ॥ हकारार्थनिभं जीवं जीवो देहे च संस्थितः । नाभिरन्ध्रै४स्थितं ख्यातं विषयान्प्राप्य संस्थितम् ॥ २६ ॥ तेनेदमखिलं व्याप्तं क्षीरं च सर्पिषा यथा । कारणां नात्मनश्चैव प्राणापानैस्तु पञ्चभिः ॥ २७ ॥ श्वासनिःश्वासयोगेन अधऊर्ध्वं प्रवर्तते । शुष्कपत्रं तु वातेन नीयते गगनं यथा ॥ २८ ॥ १ 'त्यक्त' क पाठ । २ 'वि' क पाठ । ३ 'हि' क पाठ । ४ 'न्ध्रचित' क पाठ ।